________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||२|| नियुक्ति: [२३५...]
*
*
*
प्रत सूत्रांक
||२||
संतिमे य दुवे हाणा, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥२॥ व्याख्या-सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तो-विद्यते 'इमे' प्रत्यक्षे, चः पूरणे, पठ्यते च 'संतिमेए'त्ति स्त एते, मकारोऽलाक्षणिकः, एवमन्यत्रापि यत्र नोच्यते तत्र भावनीयं, 'द्वे' द्विसद्धये तिष्ठन्त्यनयोजन्तव इति स्थाने | 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, अनेन तीर्थकृतां परस्परं वचनाव्याहतिरुपदर्शिता, ते च कीरशे ?-'मार
तिएत्ति मरणमेवान्तो-निजनिजायुषः पर्यन्तो मरणान्तः तस्मिन् भवे मारणान्तिके, ते एव नामत उपदर्शयति'अकाममरणम्' उक्तरूपमनन्तरवक्ष्यमाणरूपं च, वक्ष्यमाणापेक्षया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' |उक्तरूपं वक्ष्यमाणखरूपं च तथेति सूत्रार्थः ॥२॥ केषां पुनरिदं कियत्कालं च ? इत्यत आह
वालाणं अकामं तु, मरणं असतिं भवे । पंडियाणं सकामं तु, उक्कोसेण सतिं भवे ॥३॥ व्याख्या-बाला इब वालाः सदसद्विवेकविकलतया तेपाम् 'अकामं तु'त्ति तुशब्दस्वकारार्थत्वात् अकाममेव मरणमसकृद-वारंवारं भवेत, ते हि विपयाभिष्वङ्गतो मरणमनिच्छन्त एव नियन्ते, तत एव च भवाटवीमटन्ति, 'पण्डि-1 तानां चारित्रवतां सह कामेन-अभिलाषेण वर्तते इति सकामं सकाममिव सकामं मरणं प्रत्यसंत्रस्ततया, तथात्वं चोत्सवभूतत्वात् तारां मरणस्य, तथा च वाचक:-"सञ्चिततपोधनानां निसं प्रतनियमसंयमरतानाम् । उत्सवभूतं
दीप अनुक्रम [१३०]
***********
FOPATITISEMINDwom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~490