SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||23|| दीप अनुक्रम [१२८] ॐ [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) मूलं [--] / गाथा || १३...|| निर्युक्ति: [२२२] अध्ययनं [५], अविश्यमरणं बालं मरणं विरयाण पंडियं बिंति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ २२२॥ | व्याख्या - विरमणं विरतं - हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरताः तेषां मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिध्यादृशां सम्यग्दृशां वा मरणमविरतमरणं-वालमरणमिति ब्रुवत इति सम्बन्धः, तथा 'विरतानां' सर्व सावद्यनिवृत्तिमभ्युपगतानां मरणं 'पण्डित' मिति प्रक्रमात्पण्डितमरणम्, 'विति'त्ति ब्रुवते तीर्थकरगणधरादयः, जानीहि 'बालपण्डितमरण' मिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेर्विरता देशविरतास्तेषामिति गाथार्थः ॥ २२२ ॥ एवं चरणद्वारेण बालादि| मरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाह|मणपज्जवोहिनाणी सुअमइनाणी मरंति जे समणा । छउमत्थमरणमेयं केवलिमरणं तु केवलिणो ॥ २२३॥ व्याख्या— मनः पर्यवज्ञानिनोऽवधिज्ञानिनश्च ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात् श्रुतज्ञानिनो मतिज्ञानिनश्व 'म्रियन्ते' प्राणांस्त्यजन्ति ये 'श्रमणाः' तपखिनः छादयन्ति छद्मानि - ज्ञानावरणादीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरणं छद्मस्थमरणमेतत्, इह च प्रथमतो मनःपर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एवं तदुपजायत इति स्वामिकृतप्राधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुरभिधेयः, केवलिमरणं तु ये के For Paren www.nary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~474~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy