________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [७], मूलं [-] / गाथा ||१३..|| नियुक्ति: [२०८]
प्रत
सूत्रांक
||१३||
उत्तराध्ययनेषु पञ्चममध्ययनम् । ॥ उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने 'काङ्केत् गुणान् यावछरीरस्य भेद'इत्यभिदधता मरणं यावदप्रमादोऽनुवर्णिणतः, ततो मरणकालेऽप्यप्रमादो विधेयः, स च मरणविभागपरिज्ञानत एव भवति, ततो हि बालमरणादि हेयं हीयते पण्डितमरमादि चोपादेयमुपादीयते, तथा च तत्त्वतोऽप्रमत्तता जायते, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपवयं तावद्यावन्नामनिष्पन्ननिक्षेपे 'अकाममरणीयम्' इति नाम, तत्र च काममरणप्रतिपक्षोऽकाममरणम् , अतः कामानां मरणस्य च निक्षेपः | कार्यः, तत्र काममरणयोनिक्षेपं प्रतिपादयितुमाह नियुक्तिकृत्कामाण उणिक्खेवो चउबिहो छबिहो य मरणस्स । कामा पुवुद्दिट्रा पगयमभिप्पेयकामहि ॥ २०८ ॥
व्याख्या-काम्यन्त इति कामास्तेषां, तुः पूरणे, निक्षेपश्चतुर्विधः, षड्विधश्च मरणस्य, भवतीत्युभयत्र गम्यते, तत्र कामाः पूर्वोद्दिष्टाः पूर्व-श्रामण्यपूर्वकनाम्नि दशकालिकद्वितीयाध्ययने उद्दिष्टाः-कथिताः, तत्र तेषामनेकधा वर्णनात् , यैरत्र प्रकृतं तान् दर्शयितुमाह-'प्रकृतम्' अधिकृतम् , 'अभिप्रेतकामैः' इच्छाकामैरिति गाथार्थः
दीप अनुक्रम [१२८]
wwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अथ अध्ययनं -५ "अकाममरणीय" आरभ्यते
~464