________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||१३...|| नियुक्ति: [२०८]
प्रत
सूत्रांक
||१३||
Ki ओहे'त्ति ओघमरण-सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवमरणं-यनारकादेनरकादिभवविषयतया
विवक्षितं, 'तम्भविय'त्ति तद्भाविकमरणं यस्मिन्नेव मनुष्यभवादौ मृतः पुनस्तस्मिन्नेवोत्पद्य यन्म्रियते इति व्याख्यानिकाभिप्रायो, वृद्धास्तु व्याचक्षते-'तं भावमरणं दुविह-ओघमरणं तब्भवमरणं च, तथा तद्भवमरणस्वरूपं च 'जो जम्मि भवग्गणे मरई। तत्र च 'ओहे तब्भवमरणे' इति पाठो लक्ष्यते । इह चैषां येनाधिकारस्तमाह-'मणुस्सभविएणति मनुष्यभवभाविना भवमरणान्तर्वर्तिना मनुष्यभविकमरणेनाधिकारः-प्रकृतम् , इति गाथार्थः ॥२०९॥ सम्प्रति विस्त
रतो मरणवक्तव्यताविषयं द्वारगाथाद्वयमाह६ मरणविभत्तिपरूवण अणुभावो चेव तह पएसग्गं। कइ मरइ एगसमयं ? कइखुत्तो वावि इक्किक्के ? ॥२१०॥ मरणंमि इक्कमिक्के कइभागो मरइ सबजीवाणं? । अणुसमय संतरं वा इक्किकं किञ्चिरं कालं ? ॥ २११ ॥
व्याख्या-तत्र मरणस्य विभक्तिः-विभागस्तस्य प्ररूपणा-प्रदर्शना मरणविभक्तिप्ररूपणा, कार्येति शेषः, अनुभागश्च-रसः, स च तद्विषयस्यायुःकर्मणः, तत्रैव तत्सम्भवात् , मरणे हि तदभावात्मनि कथं तत्सम्भव इति भावनीयम् , एवेति पूरणे, तथा प्रदेशानां-तद्विषयायुःकर्मपुद्गलात्मकानाम् अग्रं-परिमाणं प्रदेशाग्रं, वाच्यमिति गम्यते,
दीप अनुक्रम [१२८]
FOLPHARPramuskani
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
અહી પ્રતનું પાનું ૨૨લાર આવશે, સ્કેન કરનારની ભૂલ થી પાનું ૨૩૦/૧ બે વખત સ્કેન થઇ ગયેલ છે
~465