________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||११-१२|| नियुक्ति: [२०७...]
प्रत
सूत्रांक
||११-१२||
येत् नैव वा वदेत्परिहरेद्वा तमिति॥'मंदा येति सूत्रं, तथा मन्दायन्तीति मन्दाः-हिताहितविवेकिनमपि जनमन्यता
नयन्तीतिकृत्वा, चशब्दः पूर्वापेक्षया समुचये, स्पर्शाः प्राग्वच्छन्दादयः, बहन् लोभयन्ति-विमोहयन्तीति बहु-1 १ लोभनीयाः 'अन्यत्रापी (कृत्यल्युटी बहुलम् )ति वचनात् कर्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्त, 'तहप्पगारेसुत्ति,
अपेर्गम्यमानत्वात्तथाप्रकारेवतिबहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु 'मनः' चित्तं न कुर्यात्, अथवा धातूनामनेकार्थत्वान्न निवेशयेत्, यद्वा सङ्कल्पात्मकमेव मनः, ततो मन इति सङ्कल्पमपि न कुर्यात्न विदध्याद् आस्तां
तत्प्रवृत्तिमिति, अथवा मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दाः-स्त्रियः ता एव स्पर्शप्रधानत्वात् स्पशाः, ततश्च महँन्दाश्च स्पर्शाः, पहूनां कामिना लोभनीया:-गृद्धिजनका बहुलोभनीयाः यास्तासु 'तहप्पगारेसु'त्ति लिङ्गव्यत्ययात्त
याप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद् , इह च स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते, तथा चाह"स्पर्शेन्द्रियप्रसक्ताच, बलवन्तो मदोत्कटाः। हस्तिवन्धकिसंरक्ता, वध्यन्ते मत्तवारणाः॥१॥" इति । एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीत्यत आह-रक्षयेत्' निवारयेत् , कम् ?-'क्रोधम्। अग्रीतिलक्षणं, 'विनयेत् ' अपनयेत् 'मानम् ' अहङ्कारात्मकं, 'मायां' परवञ्चनबुद्धिरूपां न कुयोत्, 'प्रजयात्'ट्र परित्यजेत् 'लोभम् ' अभिष्यजखभावं, तथा च क्रोधमानयोद्धेषात्मकत्वान्मायालोमयोष रागरूपत्वात्तन्निग्रह एव तत्परिहतिरिति भावनीयम् । अथवा स्पर्शपरिहारमभिदधता चतुर्थव्रतमुक्तं, तब 'अपभचेरं घोर पमायं दुरहिट्ठग'ति-13
१ अब्रह्मचर्य धोरं प्रमादं दुरधिष्ठितम् ।
दीप अनुक्रम [१२६-१२७]]
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~461