________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-], नियुक्ति: [२९]
माभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निहबो-जमालिप्रभृतिः पश्चात्कृतश्रुतपरिणतिः, आदिशन्दात्पुरस्कृतश्रुतपरिणतिसत्त्वपरिग्रहः, भावश्रुतमप्यागमनोआगमभेदतो द्विधा, तत्रागमतोऽभिधातुमाह-भावतो भावरूपं वा श्रुतं भावश्रुतं,प्राकृतत्वादिह पूर्वत्र च बिन्दुलोपः, 'श्रुते' श्रुतविषये, 'तुः' अवधारणे भिन्नक्रमः, तत उपयुक्त एव, कोऽर्थः ?-वस्य श्रुतमिति पदं ज्ञातं तत्र चोपयोगः स भावश्रुतं, तदुपयोगानन्यत्वाद् , अम्युपयुक्तमाणवकामियदिति गाथार्थः ॥ २९ ॥ उक्तावोधनामनिष्पन्न निक्षेपी, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तथापि स नोच्यते, यतः सति सूत्रेऽसौ सम्भवति, सूत्रं च सूत्रानुगमे, स चानुगमभेद इति अनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमः-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यो निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगम उत्तरादिनिक्षेपप्रतिपादनादनुगत एव, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगा
थाद्वयादवसेयः, तबेदम्-"उद्देसे णिसे य णिग्गमे खेत्त काल पुरिसे य । कारण पचय लक्खण णए समोयाहरणाणुमए॥१॥ किं कइविहं कस्स कहिं केसु कहं केचिरहवइ कालं? कद संतरमविरहियं भवागरिस फासण णिरुत्ती k॥२॥" एतदर्थः सामायिकनियुक्तितोऽवसेयः, सूत्रस्पर्शिकनिर्युक्त्यनुगमस्तु सूत्रावयवव्याख्यानरूपत्वात् सूत्रस्प-1&
१ उद्देशो निर्देशन निर्गमः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं नयः समवतारणाऽनुमतम् ॥ १॥ किं कतिविधं कस्य क केषु कथं कियविरं भवति कालम् । कतिसान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥२॥
THACKERALAMAA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~46~