________________
आगम
(४३)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उत्तराध्य.
बृहद्वृत्तिः
॥ १७ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः)
अध्ययनं [१],
मूलं [-],
निर्युक्तिः [२९]
पञ्चप्रकारः, तत्र चौपचारिकोऽनुरूपव्यापारसम्पादनानाशातनाभेदतो द्विभेदः, तत्र चाद्ये अभ्युत्थानम् आगच्छति गच्छति च दृष्टे गुरावासनमोचनम्, अभिग्रहो - गुरुविश्रामणादिनियमः, कृतिः - द्वादशावर्तादिवन्दनं शुश्रूषणं 'ण पक्खओ ण पुरओ' इत्यादिविधिना गुरुवचनश्रवणेच्छा, पर्युपासनमित्यर्थः, अनुगमनम् - आगच्छतः प्रत्युद्गमनं, संसाधनं - गच्छतः सम्यगनुत्रजनं, 'कुल' नागेन्द्रादिः 'गणः' कोटिकादिः, 'क्रिया' अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिकेह गृह्यते, 'धर्मः' श्रुतचारित्रात्मकः 'ज्ञानं' मत्यादि 'आचार्यः' अनुयोगाचार्यः 'गणी' गणाचार्य: अनाशातना-मनोवाक्कायैरप्रतीपप्रवर्तनं भक्तिः - अभ्युत्थानादिरूपा, बहुमानोमानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्ण:- श्लाघनं तेन सपलना-ज्ञानादिगुणोद्दीपना वर्णसंज्वलना ॥ श्रुतस्य चत्वारः परिमाणमस्येति चतुष्कः, सङ्खुवाया अतिशदन्तायाः कन्निति ( पा०५-१-२२) कन् तुशब्दश्चतुर्विधनिक्षेपोऽवश्यं सर्वत्र वक्तव्य इति विशेषद्योतकः, उक्तं हि - “ जत्थ उ जं जाणेजा णिक्खेवं णिक्खिवे निरवसेसं । जत्थवि वि जाणिज्जा चक्कयं निक्खिये तत्थ ॥ १ ॥” निक्षेपो न्यासः, तत्राद्ययोः सुगमत्वा तृतीयमाह - द्रव्यतो द्रव्यरूपं वा श्रुतं द्रव्यश्रुतम् आगमतो नोआगमतश्च तत्रागमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्वाह-निहुते - आग१ न पक्षतो न पुरतः | २ अथ एकोनत्रिंशत्तमनियुक्तिगाथोपात्तस्य 'सुयस्स चक्कओ उ निक्rat' इत्यस्य व्याख्या. ३ यत्र तु यं जानीयात् निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि नापि जानीयात् चतुष्ककं निक्षिपेत् तत्र । १ । ४ ' जत्थविय न जाणिवा' इत्यनुयोगद्वारेषु
unnamation
Forsy
अध्ययनम्
१
~45~
॥ १७ ॥
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः