SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१७ -१८|| दीप अनुक्रम [११२ -११३] [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३], मूलं [--] / गाथा ||१७-१८|| निर्युक्ति: [१७८...] व्याख्या- 'क्षि निवासगत्योः' क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रं ग्रामारामादि सेतुकेतूभयात्मकं वा, तथा वसन्त्यस्मिन्निति चालु खातोच्छ्रितोभयात्मकं 'हिरण्यं' सुवर्णम् उपलक्षणत्वात् रूप्यादि च, 'पशवः' अश्वादयः, दास्यते दीयते एभ्य इति दासाः - पोष्यवर्गरूपास्ते च पोरुसंति-सूत्रत्वात्पौरुषेयं च पदातिसमूहः दासपौरुषेयं, 'चत्वारः' चतुःसङ्ख्याः, अत्र हि क्षेत्रं वास्त्विति चैको हिरण्यमिति द्वितीयः पशव इति तृतीयो दास पौरुषेयमिति चतुर्थः, एते किमित्याह- काम्यत्वात् कामाः - मनोज्ञशब्दादयः, तद्धेतवः स्कन्धाः पुगलसमूहाः ततः कामस्कन्धाः, यत्र भवन्तीति गम्यते, प्राकृतत्वाश्च नपुंसकनिर्देशः, 'तत्र' तेषु कुलेषु 'से' इति स 'उपपद्यते' जायते । अनेन चैकमङ्गमुक्तं, शेषाणि तु नवाङ्गान्याह -- मित्राणि - सहपांशु क्रीडितादीनि सन्त्यस्येति मित्रवान् ज्ञातयः खजनाः सन्त्यस्येति ज्ञातिमान् भवति, उच्चैः - लक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं - कुलमस्येत्युचैर्गोत्रः, चः समुचये, वर्ण:श्यामादिः स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान्, 'अल्पातङ्कः' आतङ्कविरहितो नीरोग इत्यर्थः, महती प्रज्ञाऽस्येति महाप्रज्ञः - पण्डितः, 'अभिजात' विनीतः, स हि सर्वजनाभिगमनीयो भवति, दुर्विनीतस्तु शेषगुणान्वितोऽपि न तथेति, अत एव च 'जसो'त्ति यशस्वी, तथा च सति 'बले'त्ति वली कार्यकरणं प्रति सामर्थ्यवान्, उभयत्र सूत्रत्वान्मत्वर्थीयलोपः, एकैकोऽपि हि मित्रत्वादिगुणस्तत्तत्कार्याभिनिर्वर्त्तनक्षमः, किं पुनरमी समुदिताः ?, | शरीरसामर्थ्याचेह वलीति ॥ १७-१८ ॥ तत्किमेवंविधगुणसम्पत्समन्वितं मानुषत्यमेव तत्फलमित्याह - Education Intational Forsy www.janbay.org vपूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३ ], मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~384~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy