________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७०]
प्रत
सूत्रांक ||४६||
सन्तान उच्यते, अथ सदृशक्षणस्यैवोत्पत्तिदृष्टा, तर्हि वस्तु कथंचित् स्थितिमदपि दृष्टमिति तथैवास्तु, सजातीयेत-RAM रव्यावृत्तवस्तुवादिनां च न किञ्चित्तात्त्विकं सादृश्यम् , अतात्त्विकं च खपुष्पमिव न तत्त्वविचारोपयोगि, पूर्वापरविनि ठितकक्षणाभ्युपगमे च सन्तानिनोऽप्यसन्त एवेत्ययुक्तस्ततो भेदाभेदविचारः, अथ प्रायोगिकं विनाशमाश्रित्य भावानां विनाशनयत्यं साध्यते, तर्हि तस्य हेत्वन्वयव्यतिरेकानुविधायित्वेनानपेक्षत्वमसिद्धम् , तथाहितक्किं विनाशहेतूनामसामर्थ्यादथ, पैवात्कृतकत्वे विनाशस्थापि विनाशप्रसङ्गतो वा ?, यद्यसामर्थ्यात्तत्ति विनाशस्य तुच्छरूपतया कर्तुमशक्यत्वेन वस्त्वन्तरोत्पादव्यापृतत्वेन वा ?, तत्राद्यपक्षे विनाशस्य तुच्छरूपत्वमसिद्ध, यतो जनानामुत्तरावस्थोत्पाद एवं पूर्वावस्थाप्रच्युतिर्नान्या, यदुक्तम्- "कपालानां तु उ(समु)त्पादः, स एव च घटव्ययः । अन्यो न दृश्यते नाशो, मध्ये कुम्भकपालयोः॥१॥" न चानयोरेकत्वे विरोधो, निमित्तभेदोदयत्वाद् , यदुक्तम्-"एकत्वेऽपि बिरुद्धत्वं, न चोत्पादविनाशयोः । निमित्तभेदभूतत्वान्नप्तृपुत्रपितृत्ववत् ॥ १॥" सिद्धे चैकत्वे |पूर्वविनाशाभूत एपोत्तरोत्पाद इत्यनयोस्तुल्य एव हेतुव्यापारः, ततो भावान्तरोत्पादच्यावृतत्वेनेसपि प्रत्युक्तम् , |उक्तं च-"अन्यदुत्तरसम्भूतिः, पूर्वनाशाविनाकृता । नाविनाश्य ततः पूर्व, प्रकुर्याद्धे तुरुत्तरम् ॥१॥" अथ वैय
यत् खयं हि विनश्चरखभावो भाव इति किं तस्य विनाशहेतुना ?, नन्वेवं नाशखभावत्वाद्वस्तुन उत्पाद एव न|| स्यात् , नाशोत्पादयोर्विरुद्धत्वेन त्वयाऽभ्युपगतत्वाद् , अविरुद्धताभ्युपगमे वा जैनमतानुप्रवेशः, यदपि-कृत
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~336~