________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७०]
प्रत सूत्रांक ||४६||
उत्तराध्य.
तर्हि प्रत्यक्षनिराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गःचतुरङ्गीया
वस्त्वन्तरोत्पत्तेरदोष इति चेत् किं न तद्भेदेन प्रतिभाति १, अथ मायागोलकवत्सारश्यात्, तन्न, प्रत्यक्षेणकत्वग्रहा- ध्ययन बृहद्वृत्तिः दिदेव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य ३
भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तब सादृश्यानेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानमानप्रामाण्ये इति तदेवावर्तते, ऐहिकामुष्मिकव्यवहारविलुप्तिश्च सर्वथा नाशे, तथा चाह-"तित्ती समो किलामो
सारिक्ख विपक्खपच्चयाईणि । अज्शयणं झाणं भावणा य का सबणासम्मि? ॥शा अन्नन्नो पइगासं भोत्ता अन्नोन्नंसोदिवि का तित्ती ? । गन्तादओपि एवं इय संवबहारवोच्छित्ती ॥२॥" अथ सन्तानाश्रयो व्यवहारः, सन्तानोऽपि सन्ता
निभ्यः किं भिन्नो नवा?, यदि भिन्नो वस्तुसन्न वा ?, यदि न वस्तुसन्, किं तेन शशविषाणेनेव कल्पितेन ?, वस्तुसत्त्वेऽपि क्षणिकोऽक्षणिको वा?, यद्यक्षणिकरतेनैव प्रकृतानुमानन्यभिचारः, क्षणिकत्वे च तदयस्थैव व्यवहारविलुप्तिः, अथाभिन्नः, तथाहि-सदृशापरापरक्षणप्रबन्धः सन्तानः, स च सन्तानिन एव, तदसत्, यतः सर्वथोच्छेदे प्राम्भावित्वमेव कारणस्य कारणत्वं, तच विसदृशक्षणापेक्षयाऽपि समानमिति कथं सदृशक्षणस्यैवोत्पत्तिः ? येन तत्प्रवन्धः
॥१६॥ १ तृप्तिः श्रमः रामः सादृश्यं विपक्षः प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे? ॥१॥ अन्योऽन्यः प्रतिप्रासं भोक्ताऽन्योज्य: का तृप्तिः । गन्नादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ २ ॥२ अन्ते न सोऽपि (वि०)
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~335.