________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६२-१६३]
प्रत
सूत्रांक ||४६||
गच्छत्ति इति सम्यक् तथा दृष्टिः अस्पेति सम्यगदृष्टिः जीव उपदिष्टं प्रवचनं, तुशब्दो मिथ्यारष्टितः सम्यग-1 दृष्टेविशेषमाह, श्रद्धत्ते' निःशवं प्रतिपद्यते, तत्किमसौ प्रवचनमेव श्रद्धत्ते इत्याह-श्रद्धत्ते 'असद्भावम्' उक्तस्वरूपम् 'अनाभोगात्' अज्ञानात् , तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा,
कश्चिद्धि सम्यग्दृष्टिविशेषतो जीवादिस्वरूपानवगमाद् गुरुप्रत्ययाचातत्त्वमपि तत्त्वमिति प्रतिपद्यते । तदेवं प्रथम|| गाथया मिथ्यात्वहेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथया पुनस्तदभावेऽप्यनाभोगगुरुनियोगहेतुकत्वं, तथा चला मिथ्यात्वादितद्धेतूनां व्यापित्वादश्रद्धानभूयस्त्वेन श्रद्धानदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः ॥१६३ ॥ ननु किमेवंविधा अपि केचिदत्यन्तमृजवः सम्भवेयुः १ ये खयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्येरन् , एवमेतत् , तथाहि-जमालिप्रभृतीनां निवानां शिष्यास्तद्भक्तियुक्ततया खयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थ प्रतिपन्नाः, उक्तं हि-"तए णं तस्स जमालिस्स अणगारस्स एवमाइक्खमाणस्स एवं भासंतस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स अस्थि एगयया समणा णिग्गंधा एयममु सद्दहति पत्तियति रोयंति" इत्यादि। के पुनरमी असद्भाव प्रतिपन्ना इत्याह
१ वतस्तस्य जमालेरनगारस्य एवमाख्यायत एवं भाषमाणस्य एवं प्रज्ञापयत एवं प्ररूपयतः सन्त्येके श्रमणा निर्मन्थाः (ये) एनमर्थे | श्रदधति प्रतियन्ति रोचन्ते ।
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~312