________________
आगम
(४३)
प्रत
सूत्रांक
||३६||
दीप अनुक्रम [८५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||३६|| निर्युक्तिः [११६]
अध्ययनं [२],
वा खेदाईमलरूपेण 'रजसा' या तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'धिंसु व 'ति ग्रीष्मे, वाशब्दाच्छरदि वा परि:- समन्तात्तापः परितापस्तेन, हेतौ तृतीया, किमुक्तं भवति ? - परितापायस्वेदः प्र| स्वेदाच पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह - 'सातं' सुखम् आश्रित्येति शेषः 'नो परिदेवेत्' न प्रलपेत्-कथं कदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् १, इति सूत्रार्थः ॥ ३६ ॥ किं तर्हि कुर्यादित्याह -
वेज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेओत्ति, जलं कारण धारए ॥ ३७ ॥ (सूत्रम् )
व्याख्या- 'वेदयेत्' सहेत, जलजनितं दुःखमिति प्रक्रमः कीदृशः सन् इत्याह-निर्जरणं निर्जरा-कर्मणामात्यन्तिकः क्षयस्तामपेक्षते - कथं ममासौ स्यादित्यभिलपतीति निर्जरापेक्षी, क एवं कुर्यादित्याह - आराद्धेयधर्मेभ्यो यात इत्यार्यस्तं 'धर्म' श्रुतचारित्ररूपं नास्त्युत्तरं प्रधानमन्यदस्मादित्यनुत्तरस्तं गम्यमानत्वात् प्रसन्नो-भावभिक्षुरित्यर्थः सम्प्रति सामथ्र्यक्तमध्यर्थमादरख्यापनाय निगमनव्याजेन पुनराह - 'जाब सरीरभेओ' ति सूत्रत्वात् 'यावत्' इति मर्यादायां शरीरस्य भेदो - विनाशस्तं मर्यादी कृत्य, किमित्याह-'जल' कठिनतापन्नं मलम् उपलक्षणत्वात् पङ्करजसी च 'कायेन' शरीरेण धारयेत, दृश्यन्ते हि केचिदिन्द्राग्निदग्धानीय गिरिशिखराणि विच्छाय कृष्ण देहाः शीतोष्णवातातपादिभिः परिशोषितपरिदग्धोपहतशरीराः रजोऽवगुण्डितमलदिग्धदेहाः, अकामनिर्जरातश्च न कश्चित्तेषां
Education intimation
Forsy
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~255~