________________
आगम
(४३)
प्रत
सूत्रांक
||१६||
दीप अनुक्रम
[ ६५ ]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१६|| निर्युक्ति: [९८-९९]
अध्ययनं [२],
अवधहेतुत्यागो हि व्रतं रागद्वेषावेव च तत्त्वतस्तद्धेतू, उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः, ततस्तत्त्यागे त्यक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते, वक्ष्यति हि - "एएं उ संगे समइकमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरिता, पई भवे अवि गंगासमाणा ॥ १ ॥” इति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याह-एवमाणाय मेहावी, पंकभूयाउ इत्थीओ। नो ताहिं विणिहण्णिजा, चरे अन्तगवेसए ॥१७॥ (सूत्रम्)
व्याख्या- 'एवम्' इत्यनन्तरोक्तेन प्रकारेणात्यन्तासक्तिहेतुत्वलक्षणेन 'आज्ञाय' स्वरूपाभिव्याप्ता अवगम्य 'मेधावी' अवधारणशक्तिमान् पङ्कः - कर्दमः तद्भूताः - मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन तदुपमाः, तुरवधारणार्थः, ततः पङ्कभूता एवं स्त्रियः, पठ्यते च- 'एवमादाय मेहावी जहा एया लहुस्सग ति 'एवम्', अनन्तर एव वक्ष्यमाणमर्थम् 'आदाय' बुद्ध्या गृहीत्वा मेघावी, तमेवाह - 'यथेत्युपदर्शने, 'एताः ' स्त्रियः 'लहुस्सग 'ति तुच्छाशयत्वादिना लच्यः, ततः किमित्याह - 'नो' नैव 'ताभिः' 'स्त्रीभिः' 'विनिहन्यात्' विशेषेणसंयमजीवितव्यपरोपणात्मकेनातिशयेन च सामस्त्यतदुच्छेद रूपेणातिपातयेत्, आत्मानमिति गम्यते, कृत्यमाह'चरेत्' धर्मानुष्ठानमासेवेत, आत्मानं गवेषयते कथं मयाऽऽत्मा भवान्निस्तारणीय इत्यन्वेषयते आत्मगवेषकः, १ एतांस्तु सङ्गान् समतिक्रम्य सुखोत्तारा एव भवन्ति शेषाः । यथा महासागरमुत्तीर्य नदी भवेदपि गङ्गासमाना ॥ १ ॥
Education intemational
Forsy
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~217~