________________
आगम (४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम [६२]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः) निर्युक्तिः [९३]
अध्ययनं [२],
मूलं [१] / गाथा ||१३||
उपकारित्वनिश्चयः, अथ परेषां कपायकारणत्वेन चारित्रबाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कषायकारणं न वा ?, न तावन्न, तेऽपि कस्यचित्कषायहेतव इति चीबरवत्तेऽपि हातव्याः, आह च-"अंत्थि य किं किंचिजए जस्स व कस्स व कसायबीजं तं । वत्युं ण होज ? एवं धम्मोऽवि तुमे ण घेतो ॥ १ ॥ जेण कसायणिमित्तं जिणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिणीयागं जिणमयं च ॥ २॥ अथैषां मुक्त्यङ्गतया कपायहेतुत्वेऽपि न हेयता, तदिहापि समानम् उक्तं च वाचकसिद्धसेनेन - "मोक्षाय धर्मसिद्धयर्थं शरीरं धार्यते यथा । शरीरधारणार्थ च, भैक्षग्रहणमिष्यते ॥ १ ॥ तथैवोपग्रहार्थाय पात्रं चीवरमिष्यते । जिनैरुपग्रहः साधोरिष्यते न * परिग्रहः ॥ २ ॥ " इत्यादि । औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात् यच यत्रोपकारि न तत्तस्मिन्नुदासीनं यथा तन्त्वादयः पटे, चारित्रोपकारि च चीवरं, तथाहि-संयमात्मकं चारित्रं, न च तस्य तत्परिहारेण शुद्धिरस्ति, आगमश्च - "किं सअमोवयारं करेइ वत्थाह जह मई सुणसु। सीयत्ताणं ताणं जलणतणग
१ अस्ति च किं किञ्चित् जगति यस्य वा कस्य वा कषायवीजं तत् । वस्तु न भवेत् ? एवं धर्मोऽपि त्वया न प्रहीतव्यः ॥ १ ॥ येन कषायनिमित्तं जिनोऽपि गोशालसंगमकादीनाम् । धर्मो धर्मपरा अपिच प्रत्यनीकानां जिनमतं च ||२|| २ किं संयमोपकारं करोति वस्त्रादि यदि मतिः शृणु । शीतत्राणं त्राणं ज्वलनतृणगतानां सवानाम् ॥ १॥ तथा निशि चतुष्कालं स्वाध्यायभ्यानसाधनसृषीणाम् । हिममहिकावर्षाऽवश्यायरजआदिरक्षानिमित्तं तु ॥ २ ॥
Education intol
Forest Use Only
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 201~