________________
आगम (४३)
प्रत
सूत्रांक
||28||
दीप
अनुक्रम
[४८]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४८... || निर्युक्ति: [८०]
अध्ययनं [२],
व्याख्या - एष्यत इत्येषणम् - एषणाशुद्धं, अनेषणीयं तद्विपरीतं, सोपस्कारत्वाद्यदन्नादि तस्य यद्वा 'सुपां सुपो भवन्ती'ति न्यायादेपणीयस्य अनेषणीयस्य च, 'अग्गहणऽभोयण' ति अग्रहणम् - अनुपादानं, कथञ्चिद् ग्रहणे वा अभोजनम् - अपरिभोगात्मकं 'त्रयाणाम्' अर्थात्रैगमसङ्ग्रहव्यवहाराणां नयानां मतेनाध्यासना बोद्धव्येति सम्बन्धः, अमी हि स्थूलदर्शिनः बुभुक्षादिसहनमन्नादिपरिहारात्मक मेवेच्छन्ति, 'फायुग सहुजुत्ताणं' ति शब्दनयानां त्रयाणामृजुसूत्रस्य च मतेन प्रायुकमन्नादि उपलक्षणत्वात् कल्प्यं च गृहतो भुञ्जानस्याप्यध्यासनेति प्रक्रमः ते हि भावप्रधानतया भावाध्यासनामेव मन्यन्ते, सा च नाभुआनस्यैव, किन्तु शास्त्रानुसारिप्रवृत्त्या समतावस्थितस्य प्रासुकमेषणीयं च धर्म्मधूर्वहनार्थं भुञ्जानस्यापीति गाथार्थः ॥ ८० ॥ सम्प्रति नवद्वारमाह
जं पप्प नेगमनओ परीसहो वेयणा य दुण्हं तु । वेयण पडुच्च जीवे उज्जुसुओ सदस्स पुण आया ॥ ८९॥ व्याख्या- 'यद्' वस्तु गिरिनिर्झरजलादि 'प्राप्य' आसाद्य क्षुदादिपरीपहा उत्पद्यन्ते नैगमो-नैगमनयो यत्तदोर्नियाभिसम्बन्धात् तत्परीषद इति वक्तीति शेषः, स येवं मन्यते यदि तत् क्षुदाद्युत्पादकं वस्तु न भवेत्तदा क्षुदादय एव
स्युः, तदभावाच किं केन सह्यत इति परषहाभाव एव स्यात्, ततस्तद्भाषभावित्वात् परीषहस्य तत् प्रधानमिति । तदेव परपहः, प्रस्थकोत्पादककाष्ठप्रस्थकवत्, आह-नक्गमत्वान्नैगमस्य कथमेकरूपतेव परीषहाणामिहोता ?, उच्यते, शतशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्वचिदुच्यते, एवं शेषनयेध्वपि यथोक्ताशङ्कायां
Forsy
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~163~