________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [७२]
उत्तराध्य बृहबृत्तिः
परीषहाध्ययनम्
प्रत सूत्रांक
॥४८||
समोयारो खलु दुविहो पयडिपुरिसेसु चेव नायवो। एएसिं नाणत्तं वुच्छामि अहाणुपुवीए ॥७२॥
व्याख्या-'समवतारः खलु द्विविधः' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, दैविध्यं च विषयभेदत इति तमाह-प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः -प्रकृतिषु ज्ञानावरणादिरूपासु पुरुपेषु, चशब्दात् स्त्रीपण्डकेषु च, तत्तद्गुणस्थानविशेषवर्तिषु 'एवेति पूरणे, 'ज्ञातव्यः' अवबोद्धव्यः, 'एतेषा' प्रकृत्यादीनां 'नानात्वं' भेद वक्ष्ये 'अथ' अनन्तरम् 'आनुपूर्ध्या' क्रमेणेति गाथार्थः ॥ ७२ ॥ तत्र प्रकृतिनानात्वमाह-. णाणावरणे वेए मोहंमिय अंतराइए चेव । एएसुं बावीसं परीसहा इंति णायवा ॥७३॥
व्याख्या-ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चतुर्प कर्मसु वक्ष्यमाणखरूपेषु द्वाविंशतिः परीपहा भवन्ति ॥ ७३ ॥ अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाहपन्नान्नाणपरिसहा णाणावरणमि इंति दुन्नेए । इक्को य अंतराए अलाहपरीसहो होइ॥७४॥
व्याख्या-प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोसेकवैलव्याकरणतः परीषयमाणे परीपही, 'ज्ञानावरणे कर्मणि भवतो 'ही' एती, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च (ग्रन्थानम् २०००) 'अन्तराये' अन्तरायक-12 मण्यलाभपरीपहो भवति, तदुदयनिवन्धनवादलाभस्येति गाथार्थः ॥७४ ॥ मोहनीयं द्विधेति यत्र त दे वेदनीये च यत्परिषहावतारस्तमाह
दीप अनुक्रम [४८]
॥७५॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~160