SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४७॥ दीप अनुक्रम [४७] [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||४७|| अध्ययनं [१], निर्युक्ति: [६४...] स जत्थे सुविनीयसंसए, मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारीसमाहिसंबुडे, महज्जुई पंच वयाइँ पालिया ॥ ४७ ॥ (सूत्रम् ) व्याख्या- 'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं सकलजनश्लाघादिना पूजाई शास्त्रमस्येति पूज्यशास्त्रः, विनीतस्य हि शाखं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्यः शास्ता गुरुरस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्वासौ शस्त्रश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्ठु - अतिशयेन विनीत:- अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो - दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत्-परिषदस्येति सुविनीत संसत्कः, विनीतस्य हि स्वयमतिशय विनीतैव परिषद्धवति, 'मणोरुई 'त्ति मनसः - चेतसः प्रस्तावाद् गुरुसम्बन्धिनी रुचिः - प्रतिभासोऽस्मिन्निति मनोरुचिः, 'तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिदुरूणामप्रीतिहेतुरिति, तथा 'कम्मसंपय'त्ति कर्म - क्रिया दशविधचक्रवा|लसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत्-सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हेतुत्वम्, अथवा मनोरुचितेव मनोरुचिता तिष्ठति - जास्ते कर्मणां ज्ञानावरणादीनां सम्पद्-उदयोदीरणादिरूपा विभूतिः कर्मसम्पद्, अस्येति गम्यते, तदुच्छेदशक्तियुक्तत| याऽस्य प्रतिभासमानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्, पठ्यते च 'मणोरुह 'ति तत्र मनसो रुचिः - अभिलापो यमि Forsy warg पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~ 142~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy