________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||३७|| नियुक्ति: [६४...]
**
प्रत सूत्रांक ||३७||
भद्रस्त-कल्याणावह 'वाहकः' अश्वन्दमः, 'बालम्' अज्ञं 'श्राम्यति' खिद्यते शासत् , स हि सकृदुक्त एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च मा कार्षीरित्यादि पुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिय कः? इत्याह-'गलिम्' उक्तरूपमश्वमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाह
खड्डयाहिं चवेडाहिं, अक्कोसेहि वहेहि य । कल्लाणमणुसासंतं, पावदिदित्ति मन्नइ ॥ ३८॥ (सूत्रम्) | व्याख्या-'खडकाभिः' टक्कराभिः 'चपेटाभिः' करतलाघातः 'आक्रोशैः' असत्यभाषणैः 'बधैश्च' दण्डिकादिघातैः, चशब्दादन्यैश्चैवंप्रकारैर्दुःखहेतुभिरनुशासनप्रकारस्तमाचार्य 'कल्याणम्' इहपरलोकहितम् 'अनुसासन्तं' शिक्षयन्तं, पापा दृष्टिः-बुद्धिरस्पेति पापदृष्टिः, अयमाचार्य इति मन्यते, यथा-पापोऽयं मां हन्ति निघृणत्वात् , चारकपालकवत्, पठन्ति च-खड्डया में' इत्यादि, अत्र व्यवच्छेदफलत्वाद् वाक्यस्य खड्कादय एव मम नापरं किञ्चित् समीहितमस्तीत्यभिसन्धिना कल्याणमनुशासन(त)माचार्य पापदृष्टिं मन्यते, यदा-वाग्भिरप्यनुशास्त्रमानोऽसौ ? खडकादिरूपा वाचो मन्यत इति सूत्रार्थः ॥ ३८॥ गुरोरतिहितत्वं प्रचिकाशयिपुर्विनीताभिसन्धिमाहपुत्तो मे भाय नाइत्ति, साहू कल्लाण मन्नइ। पावदिट्ठि उ अप्पाणं, सासंदासं व मन्नइ ॥३९॥(सूत्रम्)। व्याख्या-पुत्रो मे भ्राता ज्ञातिरिति, अत्रेवार्थस्य गम्यमानत्वात् पुत्र इवेत्यादिबुद्ध्याऽऽचार्यों मामनुशास्तीति
*****
दीप अनुक्रम [३७]]
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~134