________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||३९|| नियुक्ति: [६४...]
उत्तराध्य. बृहद्वृत्तिः ॥६२॥
प्रत सूत्रांक ||३९||
साधुः' सुशिष्यः 'कल्याणं' कल्याणहेतुमाचार्यमनुशासनं वा मन्यते, स हि विवेचयति शिष्यः-सौहार्दादसौ मां अध्ययन शास्ति, दुबिनीतत्वे हिमम किमस्य परिहीयते !, ममैव त्वर्थभ्रंश इति । बालोऽप्येवं किं न मन्यत इत्याह- 'पाप-18 दृष्टिस्तु' कुशिष्यः पुनरात्मानं 'सासंति प्राकृतत्वाद्धितानुशासनेनापि शास्त्रमानं दासमिव मन्यते, यथा असौ दासयन्मामाज्ञापयति, ततोऽस्य शास्तरि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वखमुपदेष्टुमाहण कोवए आयरियं, अप्पाणंपिण कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए॥४०॥ (सूत्रम्) व्याख्या-'न कोपयेत् ' न कोपोपेतं कुर्यात् , आचार्यम् , उपलक्षणत्वादपरमपि विनयाईम्, 'आत्मानमपि' गुरुभिरतिपरुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' आचार्योपपातकृत 'न स्यात्' न भवेत् , तथा न स्यात् तुद्यते-व्यश्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनको भावतस्तु तद्दोषोद्भावकतया व्यथोपजनकं वचनमेव, तद् गवेषयति किमहममीपांजात्यादिदूषकं वच्मि? इत्यन्वेषयतीति तोत्रगवेषकः, प्रक्रमागुरूणां, न स्यादिति चादरख्यापनार्थत्वान्न पुनरुक्तं, यदुक्तं-बुद्धोपयातीन स्यात्तत्रोदाहरणं-कश्चिदाचार्यादिगणिगुण- २॥ सम्पत्समन्वितो युगप्रधानः प्रक्षीणप्रायकर्माऽऽचार्योऽनियतविहारितया विहर्तुमिच्छन्नपि परिक्षीणजङ्घाबलः क्वचिदेकस्थान एवावतस्थे, तत्रत्यश्रावकजनेन चैतेषु भगवत्सु सत्सु तीर्थ सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्त्रि
दीप अनुक्रम [३९]
ॐ4%25345
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~135