________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||३६||
नियुक्ति: [६४...]
अध्ययनम्
प्रत सूत्रांक ||३६||
उत्तराध्यप्रतिकृतं, सुठु पक्कं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः, सुहृतं कदर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं
दि प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकूपादिः, 'सुलट्ठि'त्ति शोभनोऽयं करितुरगादिरिति सामान्येनैव सायचं वचो
वर्जयेन्मुनिः । निरवयं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतमुप॥१॥ करणमशियोपशान्तये, सुहतं वा कर्मानीकादि, सुमृतमस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ साध्याचारविषये,
'सुलढित्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा-"पयंत्तपक्केत्ति व पकमालवे, पयत्तछिन्नत्ति व छिन्नमालवे । पयत्तलद्वेत्ति व कम्महे उयं, पहारगाढेति व गाढमालवे ॥१॥" इत्याप्तोपदेशात् प्रयत्नकृतपक्कादिरूपं वदेदपीति, असिंच पक्षे प्रतिरूपयोगयोजनात्मको वाचिकविनय उक्त इति सूत्रार्थः ॥ ३६ ॥ विनय एवादरख्यापनाय सुविनीतेतरोपदेशदानतो यद्गुरोर्भवति तदुपदेशयितुमाहरमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मइ सासंतो, गलिअस्समिव वाहए ॥३७॥(सूत्रम्) HI व्याख्या-'रमते' अभिरतिमान् भवति, 'पण्डितान्' विनीतविनेयान् , 'शासत्' इत्याज्ञापयन् कथञ्चित् प्रमा-1 दस्खलिते शिक्षयित्वा, गुरुरिति शेषः, कमिव कः ? इत्याह-'हयमिव' अश्वमिव, कीरशम् ?-भाति भन्दते वा
१प्रयनपक इति या पकमालपेत् , प्रयत्नच्छिन्न इति वा छिन्नमालपेत् । प्रयत्नलष्ट इति वा कर्महेतुकं, प्रहारगाढ इति वा गाठमालपेत् ॥१॥
दीप अनुक्रम [३६]
॥६१॥
S
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~133