________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [५१], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
दीप
ELESSERTAL
चतुष्पकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुनःशब्दार्थत्वात् तेन पुनहेंतुना साध्यार्थाविनाभावबलेन 'साध्यते निष्पाद्यते ज्ञाप्यते वा 'अर्थ' प्रतिज्ञार्थ इति गाधार्थः ॥ साम्प्रतं नानादेशजविनेयगणहितायोदाहरणैकार्धिकप्रतिपिपादयिषयाऽऽह
नायमुदाहरणंतिम दिलुतोवम निदरिसणं तहव । एगटुं तं दुविहं चउन्विहं चेव नायब्वं ॥५२॥ व्याख्या-ज्ञायतेऽस्मिन सति दान्तिकोऽर्थ इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाहियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम् , दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम् , तथा च 'निदर्शन' निश्चयेन दइयतेऽनेन दाष्टोन्तिक एवार्थ इति निदर्शनम्, 'एगटुंति इदमेकार्थम् एकाधिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्यविशेषयोः कथञ्चिदेकत्वाद, अत एव सामान्यस्थापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अब बहु वक्तव्यं तत्तु नोच्यते अन्धविस्तरभयादू, गमनिकामात्रमेवैतदिति गाथार्थः ॥ साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविध मित्यादि, तद् द्वैविध्यादिनदशनायाह
चरिच कपि वा दुविहं तत्तो चउठिवहेोकं । आहरणे तसे तहोसे चेवुवन्नासे ॥ ५३ ॥ व्याख्या-चरितं च कल्पितं चे(वे)ति द्विविधमुदाहरणम् , तत्र चरितमभिधीयते यवृत्तं, तेन कस्यचिद् दाटी
अनुक्रम [१]
~78~