________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक -1, मूलं [४...] / गाथा ||१६-२१|| नियुक्ति : [३५८...], भाष्यं [६२...]
(४२)
६
प्रत
सूत्रांक ||१६
-२१||
त्रार्थः॥१८॥ मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो चा, न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, | अत एवाह-मदान् सर्वान् कुलादिविषयानपि परिवयं परित्यज्य 'धर्मध्यानरतों' यो यथागमं तत्र सक्तः
स भिक्षुरिति सूत्राधः॥१९॥ किंच-प्रवेदयति' कथयति 'आर्यपद शुद्धधर्मपदं परोपकाराय 'महामुनि Xोशीलवान ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आह-धर्मे स्थितः स्थापयति परमपि-1 लश्रोतारं, तत्रादेयभावप्रवृत्तः, तथा निष्क्रम्य वर्जयति 'कुशीललिङ्गम् आरम्भादि कुशीलचेष्ठितं, तथा 'नट
चापि हास्यकुहकों' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ॥ २० ॥ भिक्षुभावफलमाह-तं देहवास मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासम् अशुचिं शुक्रशोणितोद्भववादिना अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुवन्धत्यागेन, क इत्याह-नित्यहिते' मोक्षसाधने सम्यगदर्शनादी
स्थितात्मा अत्यन्तसस्थितः, स चैवंभूतश्छित्वा जातिमरणस्य' संसारस्य 'बन्धन' कारणम् 'उपैति' सामीमप्येन गच्छति 'भिक्षुः' यतिः 'अपुनरागमा पुनर्जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगति, ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २१ ॥ उक्तोऽनुगमो, नयाः पूर्ववत्, इति व्याख्यातं सभिवध्ययनम् ॥१०॥
इति श्रीहरिभद्रसूरिविरचितायां श्रीदशवैकालिकबृहत्तौ दशममध्ययनम् ॥१०॥
दीप अनुक्रम [५००-५०५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अत्र अध्ययनं -१० परिसमाप्त
~548~