________________
आगम
(४२)
प्रत
सूत्रांक
||७..||
दीप
अनुक्रम
[४८४..]
रा० ४४
“दशवैकालिक”– मूलसूत्र - ३ ( मूलं + निर्युक्तिः + | भाष्य |+वृत्तिः
अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| निर्युक्ति: [ ३२८ ], भाष्यं [६२...]
नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् अस्य चानुयोगद्वारोपन्यासः पूर्वष सावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुख, तत्र सकारनिक्षेपमाहनामंठवणसयारो ब्बे भावे अ होइ नायन्त्रो । दव्वे पसंसमाई भावे जीवो तदुवउत्तो ॥ ३२८ ॥
नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारश्च तत्र द्रव्य इत्यागमनो आगमज्ञशरीर भव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीवः 'तदुपयुक्त:' सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ॥ | प्रकृतोपयोगी त्यागमनोआगमज्ञशरीर भव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाहनिदेसपसंसाए अत्यीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्व अज्झवणे ३२९ ।।
निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देश प्रसंशाया' मिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽश्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति
जे भावा दसवेअलिअम्मि करणिज्ज वण्णि जिणेहिं । तेसिं समावर्णमिति (भी) जो भिक्खू भन्नइ स भिक्खु ॥ ३३० ॥ ये 'भावाः' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवैकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिता:'
Far P&Personal Use Cly
bayang
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः 'स' एवं 'भिक्षु' शब्दयोः निक्षेपा:
~528~