________________
आगम
(४२)
प्रत
सूत्रांक ॥२- १० ॥
दीप
अनुक्रम
[४१६
-४२४]
दशवैका० हारि-वृत्तिः
॥ २४४ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा ||२ - १० || निर्युक्तिः [ ३२७...], भाष्यं [६२...]
॥ ४ ॥ अत्रैव दृष्टान्तदाष्टीन्तिकयोर्महदन्तरमित्येतदाह - 'आसित्ति सूत्रं, 'आशीविषश्चापि' सर्पोऽपि परं 'सुरुष्टः' सुक्रुद्धः सन् किं 'जीवितनाशात्' मृत्योः परं कुर्यात् ? न किंचिदपीत्यर्थः, आचार्यपादाः पुनः 'अप्रसन्ना' हीलनयाऽननुग्रह प्रवृत्ताः, किं कुर्वन्तीत्याह- 'अबोध' निमित्तहेतुत्वेन मिथ्यात्वसंहति, तदाशातनया मिध्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्तसंसारिकत्वादिति सूत्रार्थः ॥ ५ ॥ किं च--'जो पावगं'ति सूत्रं यः 'पावकम्' अग्निं ज्वलितं सन्तम् ' अपकामेद्' अवष्टभ्य तिष्ठति, 'आशीविषं वापि हि' भुजङ्गमं वापि हि 'कोपयेत्' रोषं ग्राहयेत्, यो वा विषं खादति 'जीवितार्थी' जीवितुकामः, 'एषोपमा' अपायमातिं प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संचन्धिन्या तद्वदपायो भवतीति सूत्रार्थः ॥ ६ ॥ अत्र विशेषमाह - 'सिआ हुत्ति सूत्रं, 'स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादसी 'पावकः' अग्निः 'न दहेत्' न भस्मसात्कुर्यात्, 'आशीविषो वा' भुजङ्गो वा कुपितो 'न भक्षयेत्' न खादयेत्, तथा 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं 'हालाहलम्' अतिरौद्रं 'न मारयेत्' न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥ ७ ॥ किंच- 'जो पव्वयंति सूत्रं यः पर्वतं 'शिरसा' उत्तमाङ्गेन भेतुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति 'शक्त्य' प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया ॐ ॥ २४४ ॥ गुरुणामिति पूर्ववदेवेति सूत्रार्थः ॥ ८ ॥ अत्र विशेषमाह - 'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचित्कञ्चिद्वासु
२९ विनय
समाध्य
ध्ययनम्
१ उद्देशः
For P&Personality
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~499~