________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [३३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
भवति भावायः, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥ अधुना
क्षपणा, साऽपि भावत इदमेवेति, आह च–'अष्टविधम् अष्टप्रकारं कर्मरजः, तत्र जीवगुण्डनपरत्वात्कमैव रजः कर्मरजः 'पुराण' प्रागुपातं यत्' यस्मात्क्षपयति 'योगैः' अन्तःकरणादिभिरध्ययनं कुर्वन् तस्मादिदमामेव कारणे कार्योपचारात् क्षपणेति । तथा चाह-इदं भावाध्ययनं 'नेतव्यं' योजनीयम् 'आनुपूर्यो' परिपाच्या
अध्ययनाक्षीणादिष्विति गाथार्थः । उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते-तत्रौघनिष्पनेऽध्ययनं नामनिष्पझे दुमपुष्पिकेति, आह-द्रुम इति कः शब्दार्थः ?, उच्यते, “दु तु गती" इत्यस्य दुरस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति (पा०५-२-९४) मतुपि प्राप्ते “दुद्रुभ्यां मः" (पा०५-२-१०८) इति मप्रत्ययान्तस्य दुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह
णामदुमो ठवणदुमो दवदुमो चेव होइ भावदुमो । एमेव य पुष्फस्स वि चउव्विहो होइ निक्खेवो ॥ ३४ ॥ व्याख्या-'नामद्रुमो' यस्य दुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो दुम इति स्थापना, 'द्रव्यद्रुमश्चैव भवति भावद्रुमः' तत्र द्रव्यदुमो द्विधा-आगमतो नोआगमतश्न, आगमतो ज्ञाताऽनुपयुक्ता, नोआगमतस्तु|| ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तस्त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्रैकमविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते, बद्धायुष्कस्तु येन दुर्मनामगोत्रे कर्मणी बद्धे इति, अभिमुखनाम
१ आयुर्विशिष्टे इति शेयम् , तथा च म क्वायुष्मताऽसंगतिः,
दीप
अनुक्रम
[-]
कर
अत्र प्रथम अध्ययनस्य परिचय-नियुक्ति: आरब्धा:
'द्रुम' शब्दस्य नामादि निक्षेपा;;
~44