________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२७५], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||६८..||
तद्विषया सत्यामृषा यथा कर्मिश्चित् प्रयोजने त्वरयन प्रहरमात्र एव मध्याह इत्याह । एवं मिश्रशन्दा प्रत्येकमभिसंबध्यत इति गाथार्थः ।। उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह____ आर्मतणि आणवणी जायणि तह पुच्छणी अ पन्नवणी । पञ्चक्वाणी भासा भासा इच्छाणुलोमा अ ॥ २७६ ॥
व्याख्या-आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं स्वबुद्ध्याऽन्यत्रापि भावना कार्येति । याचनी| यथा भिक्षां प्रयच्छेति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कश्चिदुक्तः साधुसकाशं गच्छाम इति, स आह-शोभनमिदमिति गाथार्थः॥
अणभिन्गहिआ भासा भासा अ अभिग्गहमि बोद्धव्वा । संसयकरणी भासा बायड अव्वायडा चेव ।। २७७ ।। व्याख्या-अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत् , भाषा चाभिग्रहे बोद्धव्या-अर्थमभिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत्, व्याकृता-स्पष्टा प्रकटा देवदत्तस्यैषभ्रातेत्यादिवत्, अव्याकृता चैव-अस्पष्टाऽप्रकटार्था बालकादीनां थपनिकेल्यादिवदिति गाथाथैः । उक्ता असत्यामृषा, साम्प्रतमोघत एवास्याः प्रविभागमाह
दीप अनुक्रम [२९३..]
SESEORAXACUS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~430~