________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||६७-६८|| नियुक्ति : [२६८...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२]मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
||६७
-६८||
उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाचोत्तरगुणाः, साम्प्रतमुक्तफलम-13 दर्शनेनोपसंहरन्नाह-खर्वति'त्ति सूत्रं, क्षपयन्त्यात्मानं तेन तेन चित्रायोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा इत्याह-अमोहदर्शिनः' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः त एवं विशेष्यन्ते-तपसि-I
अनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह-संयमार्जवगुणे संयमार्जवे गुणो यस्य तपसस्तMस्मिन् , संयमकाजुभावप्रधाने, शुद्ध इत्यथें, त एवंभूता 'धुन्वन्ति' कम्पयन्त्यपनयन्ति पापानि 'पुरातानि
जन्मान्तरोपात्तानि 'नवानि' प्रत्यग्राणि पापानि न 'ते' साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ॥१७॥ किंच-सदोवसंतत्ति सूत्रं, 'सदोपशान्ताः' सर्वकालमेव क्रोधरहिताः, सर्वत्राममा-ममत्वशन्याः 'अकि-18 मानना' हिरण्यादिमिध्यात्वादिद्रव्यभावकिञ्चनविनिर्मुक्ताः, खा-आत्मीया विद्या वविद्या-परलोकोपकारिणी केवलश्रुतरूपा तया स्खविद्यया विद्ययानुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-'यशखिनः' शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ 'प्रसन्ने' परिणते शरत्कालादी विमल | इव चन्द्रमाः चन्द्रमा इव विमला:, इत्येवंकल्पास्ते भावमलरहिताः 'सिद्धिं निवृति तथा सावशेषकर्माणो विमानानि' सौधर्मावतंसकादीनि 'उपयान्ति' सामीप्येन गच्छन्ति 'त्रातार' स्वपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमा, साम्प्रतं नयाः, ते च पूर्ववत्, ॥ १८॥ व्याख्यातं षष्ठाध्ययनम्
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकवृत्तौ षष्ठमध्ययनम् ॥६॥
दीप अनुक्रम [२९२-२९३]
CCCCCCCC
JanEducatatliN
अत्र षष्ठं अध्ययन परिसमाप्त
~424~