________________
आगम
(४२)
प्रत
सूत्रांक
।।६८..।।
दीप
अनुक्रम [२९३..]
दशवैका० हारि-वृत्तिः
॥ २०७ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं +निर्युक्तिः+भाष्य|+ + वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| निर्युक्ति: [२६९], भाष्यं [६२...]
अथ वाक्यशुद्धयाख्यं सप्तममध्ययनम् ।
साम्प्रतं वाक्यशुद्ध्यायमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने गोचरप्रविष्टेन सता वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य ( आचार) इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवयवचसा कथयितव्य इत्येतदुच्यते, उक्तं च- “सावजणवज्जाणं वयणाणं जो न याणइ विसेसं । वोतुंपि तस्स ण खमं किमंग पुण देसणं कार्ड १ ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाह
निक्खेवो अ (उ) को वक्के दव्वं तु भासव्वाई । भावे भासासहो तस्स य एगडिआ इणमो ॥ २६९ ॥
व्याख्या - निक्षेपस्तु 'चतुष्को' नामस्थापनाद्रव्यभावलक्षणो 'वाक्ये' वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, 'द्रव्यं तु' ब्रन्यवाक्यं पुनज्ञे शरीर भव्यशरीरव्यतिरिक्तं 'भाषाद्रव्याणि' भाषकेण गृहीतान्यनुच्चार्यमाणानि, 'भाव' इति भाववाक्यं 'भाषाशब्द:' भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकार्थिकानि 'अमूनि' वक्ष्यमाणलक्षणानीति गाथार्थः ॥
बकं वयणं च गिरा सरस्साई भारही अ गो वाणी भासा पन्नवणी देसणी अ वयजोग जोगे अ ॥ २७० ॥
१] सावधानयोर्वचनयोर्यो न जानाति विशेषम्। वक्तुमपि न तस्य क्षमं किमङ्ग पुनर्देशनां कर्तुम् ॥१॥
७ वाक्य
शुद्ध्य० भाषावरूपम् २ उद्देश
~425~
॥ २०७ ॥
For P&Personal Use City
inbyg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
अध्ययनं -७- “वाक्यशुद्धि” आरभ्यते
| अस्य अध्ययने उद्देशक: नास्ति, शिर्षकस्थाने यत् “२ उद्देश" इति मुद्रितं तत् मुद्रणदोष एव ि