________________
आगम
(४२)
प्रत
सूत्रांक
||६-७|
दीप
अनुक्रम
[२३१
-२३२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं+निर्युक्तिः+भाष्य | + वृत्तिः) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||६-७ || निर्युक्ति: [ २६६ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education in
त्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा कर्तव्यास्तथेति सूत्रार्थः ॥ ६ ॥ ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते- 'दस 'त्ति सूत्रं, दशाष्टौ च 'स्थानानि' असंयमस्थानानि वक्ष्यमाणलक्षणानि 'पानि' आश्रित्य 'बालः' अज्ञः 'अपराध्यति' तत्सेवनयाऽपराधमाप्नोति, कथमपराध्यतीत्याह-तत्रान्यतरे स्थाने वर्तमानः प्रमादेन 'निर्ग्रन्थत्वात्' निर्ग्रन्थभावादू 'भ्रश्यति' निश्चयनयेनापैति बाल इति सूत्रार्थः ॥ अमुमेवार्थ सूत्रस्पर्शनियुच्या स्पष्टयति
अट्ठारस ठाणाई आयारकहाऍ जाई भणिवाई तेसिं अनतरागं सेवंतु न होइ सो समणो ।। २६७ ।।
व्याख्या- अष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरेः तेषामन्यतरस्थानं सेवमानो न भवत्यसो भ्रमण आसेवक इति गाथार्थः ॥ कानि पुनस्तानि स्थानानीत्याह नियुक्तिकार:
वयछकं काय कं, अकप्पो गिहिभायणं । पलियंकनिसेज्जा य, सिणाणं सोहवज्जणं ।। २६८ ।।
व्याख्या- 'व्रत' प्राणातिपातनिवृत्यादीनि रात्रिभोजनविरतिषष्ठानि षट् व्रतानि कायष-पृथिव्यादयः षड् जीवनिकाया: 'अकल्प:' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजनं' गृहस्थसंबन्धि कांस्य भाजनादि प्रतीतं 'पर्यङ्कः' शयनविशेषः प्रतीतः । 'निषया च' गृहे एकानेकरूपा 'लानं' देशसर्वभेदभिन्नं 'शोभावर्जनं' विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ॥ ७ ॥
For ne&Personal Use City
~ 402~
beary dig