________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
पाणिदयातवनियमा बंभ विक्खा य इंदियनिरोहो । सब्बं निरस्थयमेयं जइ जीवो म विजई ॥ २९ ॥ भाष्यम् ।। व्याख्या-प्राणिदयातपोनियमाः करुणोपवासहिंसाविरत्यादिरूपाः, तथा 'ब्रह्म ब्रह्मचर्य 'दीक्षा च' यागलक्षणा 'इन्द्रियनिरोध' प्रव्रज्याप्रतिपत्तिरूपः, सर्व 'निरर्थक' निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायीति गाधार्थः ।। किंच-शिष्टाचरितो मार्गः, शिष्टरनुगन्तव्य' इति, तन्मार्गख्यापनायाह
लोइया वेइया चेव, तहा सामाइया विऊ । निशो जीवो पिहो देहा, इइ सव्वे वत्थिया ।। ३० ।। भाष्यम् । व्याख्या-लोके भवा लोके वा विदिता इति लौकिका-इतिहासादिकर्तारः, एवं वैदिकाश्चैव-त्रैविद्यवृद्धाः, तथा सामयिकाः-ब्रिपिटकादिसमयवृत्तयो 'विद्वांसः' पण्डिताः, नित्यो जीवो, नानित्यः, एवं पृथग् 'देहात् शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति गाथार्थः ॥ एतदेव व्याचष्टे
लोगे अच्छे नभेजो वेए सपुरीसदद्धगसियालो । समएजहमासि गओ तिविहो दिवाइसंसारो ॥ ३१ ।। भाष्यम् ।। व्याख्या-लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतासु-"अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते। नित्यः संततगः स्थाणुरचलोऽयं सनातनः ॥१॥” इत्यादि । तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति,
यथोक्तम्-शृगालो वै एष जायते यः सपुरीषो दह्यते, अधापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुलाभेवन्ति" इत्यादि । तथा समये "अहमासीगजः” इति पठ्यते, तथा च बुद्धवचनम्-"अहमासं भिक्षवो
१ आयहिमासंगज इति । अति प्र. २ क्षुधा रहिता इति वि०प०.
SECRESS
अनुक्रम [३२]
45-5%
०२२
अथ जीवस्वरुपम् प्रकाश्यते
~264~