________________
आगम
(४२)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[३२]
:+|भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ अध्ययनं [४], उद्देशक [ - ], मूलं [१] / गाथा ||१५...|| निर्युक्तिः [ २२४...], भाष्यं [१८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Jair Education
णवेदननिर्जरणसद्भावाद, आहारवदिति गाथार्थः ॥ उक्तानि बन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिखरूपव्याचिख्यासयाऽऽह
चित्तं तिकालविस चेयण पञ्चक्ख सन्नमणुसरणं । विष्णाणऽगभेयं कालमसंखेयरं धरणा ॥ १९ ॥ भाष्यम् ॥
व्याख्या-चित्तं त्रिकालविषयम्-ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना-सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानं, विविधं ज्ञानं विज्ञानम् अनेकभेदम् - अनेकप्रकारम्, अनेकधर्मिणि वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, 'कालमसंख्येयेतरम्' असंख्येयं संख्येयं वा, धारणा| अविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां च संख्येयमिति गाथार्थः ॥
अस्स्स ऊह बुद्धी ईहा चेट्टत्थअवगमो उ मई संभावणत्थतका गुणपचक्खा घडोव्वऽस्थि ॥ २० ॥ भाष्यम् ॥
व्याख्या - अर्थस्योहा बुद्धिः संशिनः परनिरपेक्षोऽर्धपरिच्छेद इति भावः, ईहा चेष्टा किमयं स्थाणुः किंवा पुरुष ? इति सदर्भपर्यालोचनरूपा, 'अर्थावगमस्तु' अर्थपरिच्छेदस्तु शिरः कण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, 'संभावणत्थतक्क'सि प्राकृतशैल्या अर्थसंभावना - एवमेव चायमर्थ उपपद्यत इत्या| दिरूपा तर्का । इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरन्नाह-गुणप्रत्यक्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः । एतदेव स्पष्टयति
For ane & Personal Use City
~260~
brary dig