SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] दीप अनुक्रम [-] :+ भाष्य + [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्ति: + अध्ययनं [–], उद्देशक [-], मूलं [-], निर्युक्ति: [८], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः Jam Education सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया अध्ययनविशेषाः सङ्ग्रहैककेन संग्रहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्त्तते तस्माद्भावेककेनाधिकार इति गाथार्थः ॥ इदानीं व्यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाह णामं ठवणा दविए खित्ते काले तहेव भावे अ । एसो खलु निक्खेवो दसगस्स उ छब्बिहो होइ ॥ ९ ॥ व्याख्या-आह किमिति व्यादीन् विहाय दशशब्दः उपन्यस्तः १, उच्यते एतत्प्रतिपादनादेव यादीनां गम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्त्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः वक्ष्यति च - 'बाला किड्डा मंदे' त्यादिना, भावदशकं दश भावाः, ते च सान्निपातिकभावे खरूपतो भावनीयाः अथ चैत (चैत) एव विवक्षया दशाध्ययनविशेषा इति, 'एष' एवंभूतः खलु 'निक्षेपों' न्यासो दशशब्दस्य बहुवचनान्तत्वादशानां षड़िधो भवति, तत्र खशब्दोऽवधारणार्थः, एष एव प्रक्रान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - नायं दशशब्दमात्रस्य, किन्तु तद्वाच्यस्यार्थस्यापीति गाथार्थः ॥ साम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिष वेदमाहबाला किडा मंदावला व पन्ना य हायणि पवंचा। पब्भार मम्मुही सायणी य दसमा उ कालसा ॥ १० ॥ व्याख्या वाला क्रीडा च मन्दा च वला (च) प्रज्ञा च हायिनी ईषत्प्रपञ्चा प्राग्भारा मृन्मुखी शायिनी दश आदि शब्दस्य निक्षेपाः प्रदर्श्यते + वृत्ति:) Fore&Personal Use City ~26~ brary dry
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy