________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति : [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
ॐॐॐ
रूपं शास्त्र, ज्ञानस्य च निर्जरार्थता प्रतिपादितैव, यत उक्तम्-"ज रहओ कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥" इत्यादि । इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वातंत्खरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणायवलम्बनत्वादित्येवमध्यपनविभागतो मगलत्रयविभागो निदर्शिता, अधुना सूत्रविभागेन निदश्यते-तत्र चादिमङ्गलम् 'धम्मो मंगल' इत्यादिसूत्रं, धर्मोपलक्षितखात्, तस्य च मङ्गलत्वादिति, मध्यममङ्गलं पुनः 'णाणदसणे'त्यादि सूत्र, ज्ञानोपलक्षितत्वात् , तस्य च मङ्गलस्वादिति, अवसानमङ्गलं तु 'णिक्खम्ममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थ विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलस्वादिति । आह-मङ्गलमिति कः शब्दार्थः, उच्यते, 'अगिरगिलगिवगिम-1 गीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" (पा०७-१-५८) रिति नुमि विहिते औणादिकालचूप्रत्ययान्तस्य अनुवन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मन्यते-- धिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानं, 'ला आदाने अस्य धातोर्मले उपपदे "आतोऽ नुपसर्गे का" (पा०३-२-३) इति कमत्ययान्तस्यानुबन्धलोपे कृते "आतोलोपइटिच" (पा०६-४-६४) कृिति इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मलातीति मङ्गलं, धर्मोपादान
१यौरविकः कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तरज्ञानी त्रिभितः क्षपयत्युच्छ्रासमात्रेण ॥१॥२ मालखरूपत्वात् वि. प. ३ करणभिक्षु प्र.
~16~