________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||३|| नियुक्ति: [१२०], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||३||
दीप अनुक्रम
स्वात् , अवेदकाच सिद्धा इति । विहङ्गमाः प्राप्य विहायोगति मिति, अत्र विहे विहायोगतेरुदयादुद्गच्छतीति विहङ्गमाः,'प्राप्य' आश्रित्य, किं प्राप्य ?-'विहायोगतिम् विहायोगतिरुक्ता तां, विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि-विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति गाथार्थः॥१२० । अधुना द्वितीयकर्मगतिभेदमधिकृत्याह
चलनकम्मगई खलु पधुच संसारिणो भवे जीवा । पोग्गलवाई वा विहंगमा एस गुणसिद्धी ॥ १२१ ॥ I व्याख्या-चलनं-स्पन्दनं, तेन कर्मगतिर्विशेष्यते, कथम् ?-चलनाण्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति-कर्मशब्देन क्रियाऽभिधीयते, सैव गतिशब्देन सैव चलनशब्देन च । तत्र गतेर्विशेषण क्रिया क्रियाविशेषणं चलनम् । कुतः-मयभिचाराद, इह गतिस्तावन्नरकादिका भवति अतः क्रियया विशे
ध्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम् , * अनुखारोऽलाक्षणिका, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगति, 'प्रतीत्य'
आश्रित्य, किम् ?-संसरणं संसार, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति संसारिणः, अनेन सिद्धानां व्युदासः, 'भवें' इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्ता, 'जीवा' उपयोगादिलक्षणाः । ततवार्य वाक्यार्थ:-चलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहं गच्छन्ति-चलन्ति सर्वरात्मप्रदेशीरिति विहङ्गमाः । तथा 'पुनलद्रव्याणि वे'त्यादि, पूरणगलनधर्माणः पुद्गलाः, पुद्गलाच ते द्र-15
~152