________________
आगम
(४२)
प्रत
सूत्रांक /
गाथांक
||3||
दीप
अनुक्रम
[3]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्ति: +
+ वृत्ति:)
: + भाष्य + अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||३|| निर्युक्तिः [११८ ], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठति स्म प्रतिष्ठितः - प्रकर्षेण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-'लोकः' लोक्यत इति लोक:, केवलज्ञानभास्वता दृश्यत इत्यर्थः इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्याधारत्वेन निर्दिष्टत्वाच्चत्वार एवास्तिकाया गृह्यन्ते, यतो नियुक्तिकारेणाभ्यधायि— 'तत्प्रतिष्ठितो लोकः', 'विहङ्गमः स' इत्यत्र विहे नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरयमनेकार्थत्वाद्धातूनामवस्थाने वर्त्तते, ततश्च विहे स्थितवां| स्तिष्ठति स्थास्यति चेति भावार्थ:, स इति चतुरस्तिकायात्मकः, 'भावार्थ' इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह- 'वा गतिर्विविधेति वाशब्दस्य व्यवहित उपन्यासः, एवं तु द्रष्टव्यः गतिर्वा द्विविधेति, तत्र | गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ ११८ ॥ तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह -
भाई कम्मगई भावगई पप्प अस्थिकाया उ । सव्वे विहंगमा खलु कम्मगईए इमे भैया ॥ ११९ ॥
व्याख्या- भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येतेषु स्वगता उत्पादविगमनौव्याख्याः परिणामविशेषा इति भावा- अस्तिकायास्तेषां गतिः- तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत | इति कर्म-ज्ञानावरणादि पारिभाषिकम्, क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति
For te&Personal Use Oily
~ 150~