________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम [१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+ + वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्तिः [७४ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education
कदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात्, तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्त्तव्यमिति विहायानुशास्त्योपसंहारमाह, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेर्निश्चयेन तदकरेणादिति भावनीयमिति, एवं तावलौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तदेशद्वारे अनुशास्तिद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य दर्शयति
जेसिपि अस्थि आया बत्तव्या तेऽवि अम्हवि स अस्थि । किंतु अकत्ता न भवइ बेययइ जेण सुहदुक्खं ॥ ७५ ॥ orror - 'येषामपि द्रव्यास्तिकादिनयमतावलम्बिनां तत्रान्तरीयाणां किम् ?-- 'अस्ति' विद्यते 'आत्मा' जीवः वक्तव्याः 'तेऽपि' तन्त्रान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैफल्यात्, किन्तु 'अकर्त्ता न भवति' सुकृतदुष्कृतानां कर्मणामकर्त्ता न भवति-अनिष्पादको न भवति, किन्तु ? कर्त्तव अत्रैवोपपत्तिमाह- 'वेदयते' अनुभवति 'येन' कारणेन, किम् ? - 'सुखदुःखं' सुकृतदुष्कृतकर्मफलमिति भावः ॥ ॐ न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गात्, मुक्तानामपि सांसारिकसुखदु:ख वेदनाऽऽपत्तेः, अकर्तृत्वाविशेषात् प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकर्त्तारमात्मानं प्रत्यकिञ्चित्करत्वाद्, अलं वि स्तरेणेति गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रैव चासंप्रतिपत्तौ समर्थनाय | निदर्शनाभिधानादिति । गतमनुशास्तितदेशद्वारम् अधुनोपालम्भद्वारविवक्षयाऽऽह
१ वैयाकरणात् वि. प्र.
For te&Personal Use City
~108~
Mowbray diy