________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९८] » “नियुक्ति: [८३] + भाज्यं [१५...] + प्रक्षेपं ।' . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||८३||
दीप
विन्ध्यमरण्य, ततो राजा कदाचिद् गजबलं महावलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गजग्रहणाय सत्वरं पुरुषान् प्रेरयामास, बाते च पुरुषाथिन्तितवन्तो यथा-गजानां नलचारिरभीष्टा, सा च सम्पति ग्रीष्मकाले न सम्भवति, किन्तु वर्षाम, तत इदानीमरघ? का
सरसीविभृमो येन नलवनान्यतिपरूढानि भवन्तीति, तथैव कृतं, नलवनप्रत्यासन्नाश्च सर्वतः पाशा मण्डिताः, इतश्च परिभ्रमन्तो यूथाधिपतिसहिता इस्तिनः समाजग्मुः, यूथाधिपतिश्च तानि नलवनानि परिभाव्य गजान प्रति उवाच-भोः स्तम्बेरमा! नामूनि नलवनानि स्वाभाविकानि, किन्त्वस्माकं बन्धनाय केनापि धूचेंन कृतानि कूटानि, यत एवं नलवनान्यतिप्ररूढानि सरस्यो चाऽतीव जलसम्भृता वर्षासु सम्भवन्ति नेदानी ग्रीष्मकाले, अथ ब्रवीरन् प्रत्यासन्नचिन्ध्यपर्वतनिझरणप्रवाइत एवं सरस्यो भृता नलवनानि चातिप्ररूढानि ततो नामूनि कूटानि, तदयुक्तम्, अन्यदाऽपि हि खलु निझरणान्यासीरन, न चैवं कदाचनाप्यतिजकभृताः सरस्योऽभूवन् , तथा चैतदर्थसमाहिकामेव नियुक्तिकारो गाथां पठति
विइयमेयं गजकुलाणं, जया रोहंति नलवणा । अन्नयावि झरंति हृदा, न य एवं बहुओदगा ॥ ८४ ॥
व्याख्या-विदितमेतद् गजकुलानां यदा 'रोहन्ति । अतिशयेन प्ररूढानि भवन्ति नलवनानि, तस्मान्नामूनि स्वाभाविकानि, अथ निर्झरणवशादेवं पदानि तत आह-अन्यदाऽपि इदा झरन्ति, न वे कदाचनापि बहूदकाः सरस्योऽभवन् , तस्मादून केनाप्यमूनि कृतानि कूटानीति मात्र यूयं यासिष्ट, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घकाले वनस्वेच्छाविहारमुखभागिनो जाताः, यैस्तु । न कृतं ते बन्धबुभुक्षादिदुःखभागिनः, इहापि गजयूथाधिपतेर्नकवनसदोषनिर्दोषरूपतापरिभावनं द्रव्यगवेषणा, दाष्टन्तिकयोजना तु पूर्व
अनक्रम
~74