SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||६५ || दीप अनुक्रम [ ८० ] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [८०] • → “निर्युक्तिः [ ६५ ] + भाष्यं [ १५... ] + प्रक्षेपं [" ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः मुक्तम् अत इदं तथेतिप्रतिपत्तिनिबन्धनं रुचिरूपः परिणामविशेषो दर्शनं प्राणातिपातादिविरार्तरूपस्तु परिणामविशेषवास्त्रिमिति, तदा ये ज्ञानस्याविभागपरिच्छेदरूपाः पर्यायास्ते समुदिता ज्ञानपिण्डो ये तु दर्शनस्य ते दर्शनपिण्डः ये तु चारित्र ते चारित्रपिण्ड इति त्रिवि धो ज्ञानदर्शनचारित्रारूपो भावपिण्ड उपपद्यते, यदा तु तपोरूपोऽपि परिणामो भवति भिन्न चारित्राद्विक्ष्यते तदा त्रयःपिण्डाः पूर्वीतार्थस्तु तपःपिण्ड इति चतुर्विधो भावपिण्डः यदा तु पञ्च महाव्रतान्येव केवलानि विवश्यन्ते ज्ञानदर्शनतपांसि पुनस्तत्रैवान्तर्भूतानि तदा ये प्राणातिपातविरतिपरिणामस्याविभाग परिच्छेदरूपाः पर्यायास्ते परस्परं समुदितत्वात् प्राणातिपातविरतिपिण्डः ये तु मृषावादविरतिपरिणामस्य ते मृषावादविरतिपिण्डः एवं यावद्ये परिग्रहविरतिपरिणामस्य से परिग्रहविरतिपिण्ड इति पञ्चविधो भावपिण्ड उपपद्यते, एवं शेषेष्वपि पिण्डेषु पिण्डत्वभावना भावनीया । एवमप्रशस्तेष्वपि भावपिण्डेषु । तदेवं पिण्डनं पिण्ड इति भावविषयां व्युत्पत्तिमधिकृत्य संयमादेः पिण्डत्वमुक्तम्, अथवा भावपिण्डविचारे पिण्डशब्दः कर्तृसाधनो विवक्ष्यते, यथा पिण्डयति कर्मणा सहात्मानं मिश्रयतीति पिण्डो भावश्चासौ पिण्डव भावपिण्डः, एतदेवाह--- कम्माण जेण भावेण अप्पगे चिणइ चिक्कणं पिंडं । सो होइ भावपिंडो पिंडयए पिंडणं जम्हा ॥ ६६ ॥ व्याख्या -पेन 'भावेन परिणामविशेषेण कर्म्मणां पिण्डं 'चिकणन्ति ' अन्योऽन्यानुवेधेन गादसंश्लेषरूपमात्मनि चिनोति स भावो भवति भावपिण्डः, अत्र हेतुमाह-पस्मात्पिण्डनमिति पिण्डयते आत्मा स्वेन सह येन तत्पिण्डनं-कर्म ज्ञानावरणीयादि तत्पिण्डयति-आत्मना सह सम्बद्धं करोति स भावस्तस्मात्कारणात्स भावपिण्ड इत्युच्यते, अत्र चेत्थं प्रशस्तामशस्तत्वभावना येन भावेन शुभं For Parts Only ~64~
SR No.035033
Book TitleSavruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy