________________
आगम
(४१/२)
प्रत गाथांक नि/भा/प्र
||५५ ||
दीप
अनुक्रम [७०]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [७०] ●→ “निर्युक्तिः [५५] + भाष्यं [१५] + प्रक्षेपं
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
क्षेत्र पिण्ड इत्युच्यते, क्षेत्रतो व्यपदिष्टः दिष्टः क्षेत्र पिण्ड इति व्युत्पत्तेः, यदा तु कालतोऽवस्थानमधिकृत्य कालमाधान्यविवक्षया कालेन व्यपदेशो यथा - एकसामयिको द्विसामयिक इत्यादि तदा स कालपिण्डोऽपि भण्यते, कालतो व्यपदिष्टः पिण्डः कालपिण्ड इति समासाऽऽश्रयणात्, अथवा त्रिपदेशाद्यात्मक क्षेत्र पिण्डे यदिवा त्रिसमयाथात्मक कालपिण्डे यदवस्थितं पुद्गलद्रव्यं तत्तदादेशात् क्षेत्रकालव्यपदेशात्- क्षेत्र कालोपचारादित्यर्थः यथाक्रमं क्षेत्रपिण्डः कालपिण्डः । प्रकारान्तरेण सोपचारौ क्षेत्रकालपिण्डावाद' जत्य जया तप्परूवणया 'यत्र वसत्यादौ यदा प्रथमपौरुष्यादौ ' तत्प्ररूपणा' पिण्डप्ररूपणा क्रियते स पिण्डः प्ररूप्यमाणो नामादिपिण्डो वसत्यादिक्षेत्रमधिकृत्य क्षेत्रपिण्ड उच्यते, यथाऽमुक वसतिरूपक्षेत्रपिण्ड इति, प्रथमपौरुष्यादिकं तु कालमधिकृत्य कालपिण्डो यथाऽमुकप्रथममहरादिरूपः कालपिण्ड इति ।। ' इद तिन्नि उपएससमया' इत्यत्र पर आक्षेपमाह-ननु मूर्त्तेषु द्रव्येषु परस्परमनुवेधतः सङ्ख्यावाहुल्यतश्च पिण्ड इति व्यपदेशो घटते, क्षेत्रकालपोस्तु न परस्परमनुवेधो नापि काले सङ्ख्याबाहुल्यं, तथाहि क्षेत्रमाकाशमुच्यते 'खेतं खलु आगास ' मिति वचनात् तच नित्यमकृत्रिमत्वाद, ततः सदैव विविक्तमदेशात्मकतया व्यवस्थितमिति कथमाकाशप्रदेशानामनुवेधः ?, एकत्र मिश्रणाभावात्, कालोऽपि पूर्वापरसमयविविक्तो | वार्त्तमानिकसमयरूप एव पारमार्थिकः, पूर्वापर समय योर्विनष्टानुत्पन्नत्वेन परमार्थतोऽसच्चात्, सतां च परस्परमनुवेधः सङ्ख्याबाहुल्यं वा नासतां सदसतां वा ततः कालद्वयमपि नोपपयते इति कथं तत्र पिण्ड इति व्यपदेशः ?, अत्र प्रतिविधानमभिधित्सुराह
मुत्तदविएस जुज्जइ जइ अन्नोऽन्नाणुबेहओ पिंडो । मुत्तिविमुत्तेमुवि सो जुज्जइ नणु संखबाहुला ॥ ५६ ॥
व्याख्या - ननु यदि मूर्त्तेषु द्रव्येष्ठ 'अन्योऽन्यानुवेधतः ' परस्परानुवेधतः, 'संखबाहुला' इत्यप्यत्र सम्बध्यते, 'सङ्ख्याबा हुव्यतश्च' ट्र्यादिसङ्ख्यासम्भवतथ पिण्ड इति व्यपदेशो 'युज्यते' योगमुपैति घटते इत्यर्थः तदि स पिण्ड इति व्यपदेशः ' मूर्त्तिविमु
Ecation Internationa
For Parts Only
~56~