________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं ! → “नियुक्ति: [२६] + भाष्यं [७...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२६||
अकर्तरीत्यनेन बञ् प्रत्ययः, पात्रस्य नियोगः पात्रनिर्योगः-पात्रोपकरणं पात्रकबन्धादिः, उक्तं च-"पेत्तं पत्ताबंधो पायहवणं च पायके सरिया । पटलाई रयत्ताणं च गोच्छओ पायनिज्जोगी।" इति । आह-कि सब्येषामेव वस्त्राणि वर्षाकालादागेव पक्ष्याल्यन्ते ? कि वास्ति केपाश्चिद्विशेषः ?, अस्तीति ब्रूमः ।। केषामिति चेदत आह| आयरिय गिलाणाण य मइला मइला पुणोऽवि धावति । मा हु गुरूण अवण्णो लोगंमि अजीरणं इयरे ॥ २७॥
व्याख्या-इह ये कृतपूविणो भगवत्मणीतप्रवचनानुगताचारादिशास्त्रोपधानानि अधीतिनः स्वसमयशानेषु ज्ञातिनः सकलस्वपरसमयशाखार्थेषु कृतिनः कारितिनश्च पञ्चविधेष्वाचारेषु प्रवचनार्थव्याख्याधिकारिणः सद्धम्मदेशनाऽभियुक्ताः सूरयस्ते आचार्याः, आचार्यग्रहणमुपलक्षणं तेनोपाध्यायादीनां प्रभूणां परिग्रहः, तेषां, तथा 'ग्लानाः' मन्दाः तेषां च, पुनः पुनः मलिनानि वस्त्राणि 'धाव्यन्ते प्रक्षाल्यन्ते, मलिनानीत्यत्र नपुंसकत्वे प्राप्तेऽपि सूत्रे पुंस्त्वनिर्देशः प्राकृतलक्षणवशात् , तथा चाह-पाणिनिः स्वमाकृतलक्षणे-"लिङ्ग व्यभिचार्यपी"ति, प्रस्तुतेऽर्थे कारणमाह-'मा हु' इत्यादि, मा भवतु, 'हु' निश्चितं, गुरूणां मलिनवलपरिधाने लोके ' अवर्णः' अ-14 श्लाघा, यथा-निराकृतयोऽमी मलदुरभिगन्धोपदिग्धदेहास्ततः किमेतेषामुपकाउंगतैरस्माभिरिति, तथा 'इतरस्मिन् ' ग्लाने मा भवत्वनीमिति भूयो भूयो मलिनानि तेषां प्रक्षाल्यन्ते । सम्पति ये उपधिविशेषा न विश्रभ्यन्ते तनामनाई गृहीत्वा तेषां धावने विधिमाह
पायरस पडोयारो दुनिसिज्ज तिपट्ट पोत्ति रयहरणं । एए उन बीसामे जयणा संकामणा धुवर्ण ॥२८॥ १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटला रजत्राणं च गोच्छकः पात्रनियोगः ॥ १ ॥
दीप
अनुक्रम
[३३॥
| पिण्डनिक्षेपे वस्त्र-धावन विधि:
~36