________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२५||
दीप
अनुक्रम
[३२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [३२] → “निर्युक्तिः [२५] + भाष्यं [७] + प्रक्षेपं [[" ←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
॥ १२ ॥
प्रानृत्य भिक्षार्थं विनिर्गतस्य साधोर्मेषदृष्टौ मलिनवकम्बलसम्पर्कतोऽकायचिराधना भवति एते 'वर्षास्विति वर्षाकालप्रत्यासन्नोऽपि कालो वर्षा इत्युच्यते, तत्सामीप्यात् भवति च तत्सामीप्यात्तच्छदव्यपदेशो यश गङ्गायां घोष इत्यत्र, ततो 'वर्षासु वर्षाप्रत्यासन्ने काले वस्त्रादीनामप्रक्षालने दोषाः तस्मादवश्यं वर्षाकालादर्वागू वासांसि मशालनीयानि । ये च सम्पातिमसत्वोपयातादयो दोपार्थीवर* प्रक्षालने प्रागुक्तास्तेऽपि सूत्रोक्तनीत्या यतनया प्रवर्त्तमानस्य न सम्भवन्तीति वेदितव्यम् । यो हि सूत्राज्ञामनुसृत्य यतनया सम्यक् प्रवर्त्तते स यद्यपि कथञ्चित्प्राण्युपमर्दकारी तथापि नासौ पापभाग भवति, नापि तीव्रप्रायचितभागी, सूत्रबहुमानतो यतनया प्रवर्त्त मानत्वात्, वक्ष्यति च सूत्रम्- 'अपत्ते चिय वासे सबं उबहिं ध्रुवंति जयणाए' इति, ततो न कश्विदोषः, नापि तदा वस्त्रपक्षालने वकुशं चरणं, सूत्राज्ञया प्रवर्त्तमानत्वात् नाप्यस्थानस्थापनदोषो, लोकानामपि वर्षासु वाससामप्राक्षलने दोषपरिज्ञानभावात् न चैतेऽनन्तरोक्ता अतिभारादयो दोषा ऋतुबद्धे काले वाससामप्रक्षालने सम्भवन्ति, तस्मान्न तदा प्रक्षालनं युक्तमिति स्थितम् । सम्मति वर्षाकालादर्धा* गपि यावानुपधिरुत्कर्षतो जघन्यतथ प्रक्षालनीयो भवति तावत्तमभिधित्सुराह
पिण्डनिर्युमलयगि यावृत्तिः
अप्पत्तेच्चिय वासे सव्वं उवहिं धुवति जयणाए । अस इए उदवस्त य जहन्नओ पाय निज्जोगो ॥ २६ ॥
'अप्राप्ते एव ' अनायते एव 'वर्षे' वर्षाकाले, वर्षाकालात् मनागर्योक्तने काले इत्यर्थः, जलादिसामग्र्यां सत्यां ' उपधिम् उपकरणं यतनया यतयः मक्षालयन्ति, 'द्रवस्य जलस्य पुनः 'असति' अभावे, जघन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः इह निस्पूर्वी युजिरुपकारे वर्त्तते, तथा चोक्तं-' पाठो दुखले निज्जोगो उपयारो' इति, ततो निर्युज्यते - उपक्रियतेऽनेनेति नियोग-उपकरणम्, १ अप्राप्तायामेव वर्षायां सर्वमुपचि प्रक्षालयन्ति यतनया ।
Education Internation
For Pay Lise On
~35~
अप्कायपि पिण्डनिक्षेपे
॥ १२ ॥
war