________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३१] .→ “नियुक्ति: [२४] + भाष्यं [७...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२४||
दीप
संपातिमाना मक्षिकादीनां प्रक्षालनजलादिषु निपततां वायोश्च वधः' विनाशो भवति, तथा 'प्लावनेन' प्रक्षालनजलपरिष्ठापने पृथिव्या रेलणेन भूतोपघातः' पृथिव्याश्रितकीटिकादिसचोपमदों भवति, तस्मान्न ऋतुबद्ध काले वस्त्रं प्रक्षालनीयम् ।। नन्वेते दोषा वर्षाकालादा-| गपि धावने सम्भवन्ति ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि, तन्न, तदानीं चीवरामक्षालनेऽनेकदोषसम्भवात् तानेवाह
अइभार चुडण पणए सीयलपाउरणऽजीरगेलण्णे । ओहावणकायवहो वासासु अ धोवणे दोसा ॥ २५ ॥ ।
व्याख्या-इह वर्षाकालादोगपि यदि वासांसि न प्रक्षाल्यन्ते तदानीम् ' अतिभारः' गुरुत्वं वस्त्राणां भवति, तथाहि-वासांसि मलविद्धानि यदा जलकणानुषक्तसमीरणमात्रेणापि स्पृष्टानि भवन्ति तदाऽपि स मलः क्लिनीभूय-दृढतरं वस्त्रेषु सम्बन्धमापद्यते, कि पुनर्वासु सर्वतः सलिलमयीषु ?, ततो वर्षासु क्लिन्नमलसम्पर्कतो वासांसि गुरुतरभाराणि भवन्ति, तथा 'चुडणन्ति वाससा वर्षा-2 कालादब्बोगप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः, किमुक्तं भवति ?-यदि नाम वर्षाकालाद|गपि वस्त्राणि न प्रक्ष्याल्यन्ते ततो वर्षामु तेषां मलक्लिन्नतया जीर्णताभवनेन शाटो भवति, न च वर्षास्वभिनववस्त्रग्रहणं, न चाधिकः परिग्रहः, ततो ये वस्त्राभावे दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्ते इति, तथा मलक्लिन्नेषु वखेषु शीतलजलकणसंस्पर्शतो मलस्याद्रीभावतः 'पनकः' वनस्पतिविशेषः प्राचुर्येणोपजायते, तथा च सति माणिव्यापादनासक्तिः, तथा निरन्तरं सर्वतः मसरेण निपतति वर्षे शीतले च मारते वाति मामलस्याद्रीभावतः शीतलीभूतानां वाससां प्रावरणे भुक्ताऽऽहारस्याजीर्णतायाम्-अपरिणती 'ग्लानता' शरीरमान्धमुज्जृम्भते, तथा च सति
प्रवचनस्यापभाजना, यथा-अहो बठरशिरोमणयोऽमी तपखिनो न परमार्थतस्तत्त्ववेदिनो ये नाम वर्षांखप्रक्षालितानां वाससां परिभोगे| |मान्यमुपजायते इत्येतदपि नावबुध्यन्ते ते पृथग्जनापरिच्छेयं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयं, तथा वर्षास्वमक्षालितानि वस्त्राणि
अनुक्रम [३१]
~34