SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||२३|| दीप अनुक्रम [30] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [३०] → “निर्युक्तिः [२३] + भाष्यं [७] + प्रक्षेपं [[" ← पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः पिण्डनिर्यु तेर्मलयगि यावृतिः ॥ ११ ॥ परिसेयपियणहत्याइधोवणं चीरधोवणं चैत्र । आयमण भाणधुवणं एमाइ पओयणं बहुहा ॥ २३ ॥ व्याख्या -- परिषेको - दुष्टव्रणादेरुत्थितस्योपरि पानीयेन परिषेचनं, पानं वडपनोदाय जलस्याभ्यवहरणं, 'हस्तादिधावनं ' करचरणप्रभृतिशरीरावयवानां कारणमुद्दिश्य प्रक्षालनं, ' चीवरघावनं ' वस्त्रपक्षालनम् अस्य भिन्नविभक्तिनिर्देशो न सदैव साधुनोपधिप्रक्षालनं कर्त्तव्यमिति प्रदर्शनार्थः, 'आचमनं' पुरीषोत्सर्गानन्तरं शौच करणं 'भाणधुवणं' ति पात्रकादिभाजनप्रक्षालनम्, एवमादिकम्, आदिशब्दात् ग्लानकार्यादिपरिग्रहः, अचित्तेनाप्कायेन प्रयोजनं, 'बहुधा ' बहुप्रकारं द्रष्टव्यम् ॥ इह चीवरधावनमित्युक्तं तच संयतानां वर्षाकालादर्वाक् कल्पते न शेषकालं, शेषकाले त्वनेकदोपसम्भवात् तानेव दोषान् दर्शयति उउबद्ध ध्रुवण बाउस बंभविणासो अठाणठवणं च । संपाइनबाउवही पावण भूओवघाओ य ॥ २४ ॥ व्याख्या - वर्षाकालस्य प्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले चीवरस्य धावने चरणं वकुशं भवति, उपकरणवकुशत्वात्, तथा ● 'ब्रह्मविनाशः' मैथुनप्रत्याख्यानभङ्गः, प्रक्षालितवासः परिधानभूषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः ?, ततः समस्तकामिनीनां प्रार्थयमानानां सललितदर्शित तिर्यग्वलिताक्षनिरीक्षणाङ्गमोटनव्याजोपदर्शित कक्षा मूलसद्वृत्ततारमणीयपीनकठिन पयोधरविस्तारगम्भीरनाभी प्रदेशपरिभावनतोऽवश्यं ब्रह्मचर्यादपभ्रंशमधिश्रयते, तथा अस्थानस्थापनम् इयमंत्र भावना-यदि नाम कथञ्चित्तत्त्ववेदितया संयमविषय निष्प्रकम्पनृत्यवष्टम्भतो न ब्रह्मचर्यादपत्रइयति, तथाऽपि लोकेन सोऽस्थाने स्थाप्यते, यथा नूनमयं कामी, कथमन्यथाऽऽत्मानमित्थं भूषयति ?, न खल्वकामी मण्डनप्रियो भवतीति, तथा Education International For Parts Only ~33~ अप्कायपिपिण्डनिक्षेपे ॥ ११ ॥
SR No.035033
Book TitleSavruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy