________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६२१] » “नियुक्ति: [१७९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५७९||
साधुस्ता पालिका मुग्धतरामवगत्य लाम्पटवतो भूयो भूय उवाच-पुनर्देहि पुनर्देहीति, ततस्तया समस्तोऽप्योदनो दत्तः, तत एवमेवं मुद्घृततक्रदध्यादिकमपि, अपराद्धे च समागता जननी, उपविष्टा भोजनाय, भणिता च निजयुत्रिका-देहि पुत्रि! मामोदनमिति, साध्वोचत-दत्तः समस्तोऽप्योदनः साधये, साऽधवीव-शोभनं कृतवती, मुगान् मे देहि सा माह-मुद्रा अपि साधने सर्वे प्रदत्ताः एवं च यद्यत् किमपि सा याचते तत्सर्वं साधये दत्तमिति ब्रवीति, ततः पर्यन्ते काञ्जिकमात्रमयाचत, तदपि बालिका भणति-साधवे। दत्तमिति, ततः साभिनवश्राद्धिका रुष्टा सती पुत्रिकामेवमपबदति-किमिति त्वया सर्व साधवे प्रदत, सा ब्रते-स साधर्भयो भयोs-18 याचत ततो मया सर्वमदायि, ततः सा साधोपरि कोपावेशमाविशन्ती सूरीणामन्तिकमगमत, अचकच सकलमपि साधुवृत्तान्तं, यथा भवदीयः साधुरिस्थमित्थं मत्पुत्रिकायाः सकाशाद्याचित्वा याचित्वा सर्वमोदनादिकमानीतवानिति, एवं तस्यां महता शब्देन कथयन्त्यां शब्दश्रवणतः पातिवेश्मिकजनोऽन्योऽपि च परम्परया भूषाम्मिलितो ज्ञातश्च सर्वैरपि साधुवृत्तान्तः, ततो विदधति तेअपि कोपावेशतः साधूनामवर्णवाद नूनमपी साधुबेपपिडम्बिनश्चारभटा इव लुण्टाका न साधुसदत्ता इति, ततः प्रवचनावणेवादापनोदाय मूरिभिस्तस्याः सर्वजनस्य च समक्षं स साधुनिर्भत्स्योंपकरणं च सकलमागृह्य वसतेनिष्काशितः, तत एवं तस्मिनिष्काशिते आविकायाः कोपः शममगमत् , ततः मूरीणां क्षमाश्रमणमादायोक्तवती-भगवन् !मा मन्निमित्तमेष निष्काश्यता, क्षमस्वैकं ममापराधमिति, ततो भूयोऽपि यथावत्साधुः शिक्षित्वा प्रवेशितः । सूत्र सुगम । नवरम् 'उडाह पओस चारभडा' इति, लोके उडाइः ततो लोकस्य मद्वेषभावतधारभटा इव लुण्टाका अमी न साधव इत्यवर्णवादः। यत एवं बालाद्भिक्षाग्रहणे दोपास्ततो चालान ग्राह्यमिति । सम्पति स्थविशारदायकदोषानाह
दीप
अनुक्रम [६२१]
~328~