________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||||
दीप
अनुक्रम [ ५४७ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [५४७] ● → “निर्युक्तिः [५०५] + भाष्यं [३७...] + प्रक्षेपं [६]" ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्युतेर्मलयगियावृत्तिः
॥ १४४॥
अपि कृष्णानयाः कूले एकत्र मिलिते, जातो विस्मयो छोकस्य सपरिवारस्य च कुलपतेः ततो गृहीता सपरिवारेण कुलपतिना दीक्षा, सा ब्रह्मशास्वा बभूव । सूत्रं सुगमं । तदेवं 'पायलेवणे जोगे ' इति व्याख्यातं तयारूपानाच्च योगद्वारं समर्थितं । सम्प्रति 'मूल 'त्ति व्याचिख्यासुरा-- ●
अधि पुच्छा आसन्न विवाहे भिन्नकन्नसाहणया । आयमण पियणओसह अक्खय जज्जीव अहिगरणं ॥ ५०६ ॥ जंघापरिजिय सड्डी अद्धिइ आणिज्जए मम सवती । जोगो जोणुग्धाडण पडिसेह पओस उड्डाहो ॥ ५०७ ॥
व्याख्या - चिरपुरे धननान्नः श्रेष्ठिनो भार्या घनप्रिया, तस्य दुहिता सुन्दरी, सा च भिन्नयोनिका, परमेनमर्थं माता जानाति न पिता, सा च पित्रा तत्रैव पुरे कस्यापीश्वरपुत्रस्य परिणयनाय दत्ता, समागतः प्रत्यासन्नो विवाहो, मानुचिन्ता वभूव एषा परिणीता सती यदि भर्ता भिन्नयोनिका ज्ञास्यते ततस्तेनोज्झिता वराकी दुःखमनुभविष्यति, अत्रान्तरे च समागतः कोऽपि संयतो भिक्षार्थ, तेन सा पृष्टा, तया कथितः सर्वोऽपि वृत्तान्तः, ततः साधुनोक्तं मा भैषीरमभिनयोनिकां करिष्यामि तत आचमनौषधं पानीपथं च तस्यै प्रदत्तं, जाता अभिन्नयोनिका । तथा चन्द्राननायां पुरि घनदत्तः सार्थवाहस्तस्य भार्या चन्द्रमुखा, तयोश्चान्यदा परस्परं कलहः प्रवृत्तः, ततोऽभिनिवेशेन तन्नगरवास्तव्यस्यैव कस्यापीश्वरस्य दुहिता धनदतेन परिणयनार्थ वृता, ज्ञातथायं वृत्तान्तश्चन्द्रमुखया, ततो बभूव महती तस्या अधृतिः, अत्रान्तरे च जङ्घापरिजितनामा साधुरागतो भिक्षार्थी, दृष्टा तेनावृतिं कुर्वती चन्द्रमुखा, ततः पृष्टा- किं भद्रे ! त्वमधृतिमती दृश्यसे ?, ततः कथितस्तया सपत्नीव्यतिकरः, ततः साबुना समर्पितं तस्या औषधं, भणिता च सा कथमपि तस्या भक्तस्य पानस्य मध्ये देयं येन सा भिन्नयोनिका भवति, ततः स्वयं निवेदयेः, येन सा न परिणीयते, तथैव कृतं न परिणीता सा भर्तेति । सूत्रं सुगमं । नव
Education Internation
For Parts Only
• अत्र एका प्रक्षेप-गाथा वर्तते सा मया संपादित: 'आगमसुत्ताणि मूलं एवं सटीकं उभये पुस्तके वर्तते
~ 299~
उत्पादना
१५ यो.
गे समिताचार्याः
॥ १४४॥