________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४८४||
दीप
अनुक्रम
[ ५२२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [५२२ ] • → “निर्युक्तिः [४८४] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
८०
स्तवः । तत्र सम्बन्धिनो मात्रादयः श्वश्रूवादयश्च तद्रूपतया यः संस्तवः स सम्बन्धिसंस्तवः वचनं श्लाघा तद्रूपो यः संस्तवः स वचनसंस्तवः, एकैकोऽपि च द्विधा, तथथा - 'पुवि पच्छा य'त्ति पूर्वसंस्तवः पश्चात्संस्तवञ्च । तत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह
मायपिइ पुव्वसंथव सासूसुसराइयाण पच्छा उ । गिहि संथवसंबंधं करेइ पुव्वं च पच्छा वा ॥ ४८५ ॥
व्याख्या--मातापित्रादिरूपतया यः संस्तत्रः- परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्संस्तत्रः श्वश्वादीनां पश्चात्कालभावित्वात्, तत्र साधुभिक्षार्थं प्रविष्टः सन् गृहिभिः सह 'संस्तवसम्बन्धं परिचयघटनं 'पूर्व' पूर्वकालभावि मात्रादिरूपतया 'पञ्चाद्वा' पश्चात्कालभावि श्वश्रवादिरूपतया वा करोति । कथम् ? इत्याह
आयवयं च परवयं नाउं संबंध तयणुरुवं । मम माया एरिसिया ससा व धूया व नत्ताई ॥ ४८६ ॥
व्याख्या - इह साधुर्भिक्षार्थं गृहे प्रविष्टः सन्नाहारलम्पटतयाऽऽत्मत्रयः परवयश्च ज्ञात्वा ' तदनुरूपं ' वयोऽनुरूपं सम्बध्नाति, यदि सा वयोवृद्धा स्वयं च मध्यमवयाः ततो ममेदृशी माताऽभूदिति ब्रूते, यदि पुनः साऽपि मध्यमवयास्तत ईदृशी मम स्वसाऽभूदिति वदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्मत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाह
Education Internationa
अडिइ दिडपण्हव पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विहवासुण्हाइदाणं च ॥ ४८७ ॥ व्याख्या -कोऽपि साधुर्भिक्षार्थं प्रविष्टः काञ्चिन्निजमातृसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मातृस्थानेनावृत्या दृष्टिप्रस्न
For Parts Use One
~290~
ayu