________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४६०||
दीप
अनुक्रम [ ४९८ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [४९८ ] • → “निर्युक्तिः [४६०] + भाष्यं [ ३४ ...] + प्रक्षेपं [५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
८०
पिण्डनिर्यु -
मलयगि
यावृत्तिः
॥१३३॥
नाय चिकित्स्यते, चिकित्सितश्च प्रगुणीभूतः प्रथमतस्तस्यैत्र वैद्यस्य विघातं करोति, ततः शेषाणां बहूनां जीवानाम्, एवमेषोऽपि गृहस्थः साधुना चिकित्स्यमानः साधोः संयमप्राणान् हन्ति, शेषश्च पृथिवीकायादीनिति । यदि पुनः कथमपि चिकित्स्यमानस्यापि तस्यातिशयेन रोगस्पोदय:- प्रादुर्भावो भवति, ततोऽहमनेनातिशयेन रोगीकृत इति सञ्जातकोपो राजकुलादौ ग्राहयति, तथा च सति उड्डाहः--: प्रवचनस्य मालिन्यमिति । उक्तं चिकित्साद्वारम् अधुना क्रोधादिद्वारचतुष्टयं विवक्षुः प्रथमतः क्रोधादिपिण्डदृष्टान्तानां नगराणि क्रोधाद्युत्पत्तेः कारणानि च प्रतिपादयति---
हत्यकप्प गिरिफुल्लिय रायगिहं खलु तहेव चंपा य । कडघयपुन्ने इट्टग लड्डुग तह सीहकेसरए ॥ ४६१ ॥
व्याख्या -- क्रोधपिण्डदृष्टान्तस्य नगरं हस्तकल्पं, मानपिण्डदृष्टान्तस्य गिरिपुष्पितं, मायापिण्डदृष्टान्तस्य राजगृह, लोभ पिण्डदृष्टाअन्तस्य चम्पा तथा कृतान् घृतपूर्णानलभमानस्य क्रोधोत्पत्तिः, सेवकिका अलभमानस्य मानस्योत्पत्तिः, मोदकानाश्रित्य मायोत्पत्तिः, सिंहकेसरसज्ञान् मोदकानलभमानस्य लोभोत्पत्तिः । सम्प्रति क्रोधपिण्डस्य सम्भवमाह-
विज्जातवप्पभावं रायकुले वाऽवि वल्लभत्तं से । नाउं ओरस्सबलं जो लब्भइ कोहपिंडो सो ॥ ४६२ ॥
व्याख्या - स साधोः 'विद्याप्रभावम् ' उघाटनमारणादिकं ' तपःप्रभावं शापदानादिकं राजकुले वल्लभत्वं वा ज्ञात्वा यदिवा औरस्यं बलं सहस्रयोधित्वादिकं ज्ञात्वा यः पिण्डो 'लभ्यते ' गृहस्थेन दीयते स staपिण्डः । अथवाऽन्यथा क्रोधपिण्डसम्भवः, तमेव दर्शयति---
For Parts Only
~277~
उत्पादना
यां ६ चि
कित्सापि
ण्डः ७-१०
क्रोधादि
काः
।। १३३ ।।