________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४९०] » “नियुक्ति: [४५२] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४५२||
व्याख्या-अपि नाम गवादीनां तृणादिक आहारो भवेत् मुलभः, छिच्छिकारहतानां स्वमीषां शुनां न तु कदाचनापि भवति । सुलभः, तत एतेभ्यो यदीयते तदेव बहुफलमिति भावः, अपि च नेते श्वानः श्वान एव, किन्तु 'गुह्यका' देवविशेषा 'कैलासभवनात् कैलासपर्वतरूपादाश्रयादागत्य 'महीं' पृथिवीं यक्षरूपेण श्वाकृत्या चरन्ति, तत्त एतेषां पूजाऽपूजा च यथासङ्घर्थ हिताऽहिता || चेति । सम्पति ब्राह्मणादिविषयवनीपकत्वे दोपानाह-.
एएण मज्झ भावो दिट्ठो लोए पणामहेजंमि । एकेके पुष्वुत्ता भद्दगपंताइणो दोसा ॥ ४५३ ॥
व्याख्या-'एतेन' अनेन साधुना 'मज्झ' मदीयः 'भावः' भक्तत्वलक्षणः 'दृष्टः । अवगतो 'लोके' ब्राह्मणादौ, किंविशिष्टे ? इत्याह-प्रणामहायें' प्रणामः-प्रणमनं तेन, उपलक्षणमेतत् दानादिना च, हायें-आवर्जनीये, तत एकैकस्मिन् ब्राह्मणादिविषये बनीपकत्ये पूर्वोक्ता भद्रकमान्तादयो दोषा भावनीयाः, किमुक्तं भवति ?-यदि भद्रकस्तहिं प्रशंसावचनतो वशीकृत आधाकर्मादि कृत्वा प्रयच्छति, अध पान्तस्तहि गृहनिष्कासनादि करोति । इह पाक् 'साणे पुण होइ पंचमए । इत्युक्तं, तत्र साणग्रहणं काकादीनामु-18 पलक्षणं, तेन काकादिष्वपि वनीपकत्वं द्रष्टव्यं , तथा चाह
एमेव कागमाई साणग्गहणेण सूइया होति । जो वा जंमि पसत्तो वणइ तहिं पुढऽपुट्ठो वा ॥ ४५४ ॥
व्याख्या-'एवमेव ' बनीपकत्वमरूपणाविषयत्वेन श्वग्रहणेन काकादयोऽपि सूचिता भवन्ति, ततस्तत्रापि वनीपकत्वं भावनीयम् । एतदेव व्याप्तिपुरस्सरमाह-यो वा यत्र काकादौ पूजकत्वेन प्रसक्तस्तत्र काकादिस्वरूपं पृष्टोऽपृष्टो वा 'बनति ' प्रशंसाद्वारेणाऽऽत्पान || भक्तं दर्शयति । सम्पति बनीपकत्वं कुर्वतः साधोर्युक्त्या दोषगरीयस्त्वं प्रकटयति
दीप
अनुक्रम [४९०]
wwwmarary.org
~2744