________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४३४||
दीप
अनुक्रम [ ४६९ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [४६९ ] “निर्युक्तिः [४३४] + भाष्यं [ ३२...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
• →
८०
पिण्डनिर्यु
तेर्मलयगि
रीयावृत्तिः
॥१२७॥
00000000000
जामाइपुत्तपइमारणं च केण कहियंति जणवाओ । जामाइपुचपइमारएण खंतेण मे सिद्धं ॥ ४३४ ॥
व्याख्या - विस्तीर्णो नाम ग्रामः, तस्योपकण्ठे गोकुलाभिधो ग्रामः, विस्तीर्णग्रामे च धनदत्तो नाम कुटुम्बी, तस्य भार्या प्रियमतिः, तस्या दुहिता देवकी, सा च तस्मिन्नेव ग्रामे सुंदरेण परिणीता, तस्याः पुत्रो बलिष्ठो, दुहिता रेवतिः, सा च गोकुलग्रामे सङ्गमेन * परिणिन्ये, प्रियमतिश्चायुःक्षयात् पञ्चत्वमुपगता, धनदत्तोऽपि संसारभयभीतः मन्त्रज्यामग्रद्दीद्, गुरुभिश्च सार्द्धं विहरति । ततः कालान्तरे पुनरपि यथाविहारक्रमं तत्रैव ग्रामे समागतो निजदुहितृदेवक्या वसतावस्थात्, तदानीं च तयोर्द्वयोरपि ग्रामयोः परस्परं वैरं वर्त्तते, विस्तीर्णग्रामवासिना च लोकेन गोकुलग्रामस्योपरि घाटी सूत्रिता, घनदत्तश्च साधुर्गोकुलग्रामे भिक्षायै चलितवान् ततो देवक्या दुद्दित्रा शय्यातर्या भणितो - यथा हे पितः ! त्वं गोकुलग्रामे यास्यसि ततो निजदौहिश्या रेवत्याः कथय यथा तव जनन्या सन्दिष्टम् - अयं * ग्रामस्तव ग्रामस्योपरि छन्नघाटचा समागमिष्यति ततः सकलमपि स्वकीयमेकान्ते स्थापयेरिति, ततः साधुना तथैव तस्याः कथितं, तया च निजभर्तुः तेन च सकलग्रामस्य, ततः सर्वोऽपि ग्रामः सन्नद्धवद्धकवचोऽभवत् आगतश्च द्वितीयदिने घाटचा विस्तीर्णग्रामो, जातं परस्परं महद्युद्धं तत्र सुन्दरो बलि घाटा सह गतौ, सङ्गमथ गोकुलग्रामे वसति, तत्र त्रयोऽपि च युद्धे पञ्चत्वमुपजग्मुः, देवकी च पतिपुत्रजामातृमरणमाकर्ण्य विलपितुं प्रावर्त्तत, लोकच तन्निवारणाय समागतोऽवादीद-यदि गोकुळग्रामो घाटीमागच्छन्तीं नाज्ञास्यत् ततोऽसन्नद्धो नायोत्स्यत, तथा च न तव पत्यादयो त्रियेरन, ततः केन दुरात्मना गोकुलग्रामो ज्ञापितः, एतच लोकस्य वचः श्रुत्वा ॐ सञ्जातकोपा सैवमवादीत् मयाऽजानत्या पित्रा दुहितुः सन्दिष्टं ततस्तेन साधुवेषविडम्बकेन मत्पतिपुत्रजामातृमारकेण पित्रा ज्ञापितः, ॐ ततः स लोके स्थाने स्थाने धिक्कारं लभते । प्रवचनस्य च मालिन्यमुदपादि । सूत्रं सुगमम् उक्तं दूतीद्वारम् अथ निमित्तद्वारमाह-
For Park Use Only
~265~
उत्पादना
दोषेषु २
दूत्यां धनदत्तकथा
॥१२७॥
r