________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३९९||
दीप
अनुक्रम [४३२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [४३२ ] • → “निर्युक्ति: [ ३९९] + भाष्यं [ ३०...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
धिकोटिदोषवत् पतितमित्येवंरूपे 'द्रवं काञ्जिकादि तत्र मध्ये प्रभूतं प्रक्षिप्य पञ्चात्पात्रमवनभ्य पात्रकर्णैकदेशे च शुद्धभक्तपानरक्षणार्थ करं च दत्वा सर्व द्रवं गाळ्यन्ति । तथा तृतीये शुद्धे आर्द्रे तीमनादौ मध्यपतितं शुष्कं कुरवल्लचनकादिरूपमोदनमित्येवंरूपे तत्र तीमनादौ मध्ये 'करं ' हस्तं प्रक्षिप्योदनादि यथावन्मात्रं शक्नोति तावन्मात्रमशठः सन् 'उल्लिंचति' आकर्षति, ततः शेषं तीमनादि कल्पते, तथा * 'चरमे ' आर्द्रे आर्द्र पतितमित्येवंरूपे यदि तद्द्रव्यं 'दुर्लभम् ' अन्यत्र न प्राप्यते तत्रोदेशतस्तावन्मात्रं परित्यजन्ति, शेषं कल्पते, एषा चतुर्भङ्गिका साधूनामसंस्तरणे वेदितव्या, संस्तरणे च सकलमपि परित्यजन्ति । तथा चाह
संघरे सव्वमुज्झति, चउभंगो असंथरे । असढो सुज्झई जेसुं, मायावी जेसु बज्झई ॥ ४०० ॥
व्याख्या – 'संस्तरे' निर्वाहे सति सर्वमपि पात्रस्थितं विशोधिकोटिसंसृष्टमुज्झन्ति, 'असंस्तरे ' अनिर्वाहे पुनः 'चतुर्भङ्गी ' चत्वारोऽनन्तरोक्ता भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात् कथंभूतास्ते भङ्गाः ? इत्याह-येषु भङ्गेषु 'अशठः ' अरक्तद्विष्टः सन् ॐ वर्त्तमानः शुध्यति - शुद्धिमापद्यते, मायावी च येषु बध्यते । तदेवं विशोध्यविशोधिरूपं कोटिद्वयं सप्रपञ्चमुक्तम्, इदानीं तदेवोपसंहार* व्याजेन सङ्क्षेपत आह-
कोडीकरणं विहं उग्गमकोडी विसोहिकोडी य । उग्गमकोडी छक्कं बिसोहिकोडी अणेगविहा ॥ ४०१ ॥
व्याख्या — कोटीकरणं 'द्विविधं द्विमकारं, द्विधा कोटिरित्यर्थः, तद्यथा— उद्गमकोटिर्विशोधिकोटिश, तत्रोद्रमकोटिः 'षट्कम् | आधाकर्मिकौदेशिकान्त्यभेदत्रिकादिपद्भेदाः, विशोधिकोटिः पुनरनेकविधा - ओघौदेशिकादिरूपा । सम्प्रत्यन्यथा कोटीः प्रतिपादयति
Education International
For Parts Only
~248~